________________
००००००००००००००००००००००००००००००००
पुरद्रोहकारिस्थानीया आधाकर्मभोजिनः साधवः, नृपस्थानीयं ज्ञानावरणादिकं कर्म, मरणस्थानीयः संसारः, तत्र ये आधाकर्मभोक्तृप्रशंसकास्ते कर्मराज्ञो निग्राह्याः, शेषास्त्वनिग्राह्याः ॥ सम्प्रत्यनुमोदनाप्रकारमेव दर्शयति____ साउं पज्जत्तं आयरेण काले रिउक्खमं निद्धं । तगुणविकत्थणाए अभुंजमाणेऽवि अणुमन्ना ॥ १२८ ॥
व्याख्या-आधाकर्मभोजिन उद्दिश्य केचिदेवं ब्रुवते-वयं तावन्न कदाचनापि मनोज्ञमाहारं कभामहे, एते पुनः सदैव स्वादु लभते, तदपि च 'पर्याप्तं ' परिपूर्ण, तत्रापि 'आदरेण' बहुमानपुरस्सरं तत्रापि 'काले प्रस्तुतभोजनवेलायां तदपि 'ऋतुक्षमं । शिशिरादिऋतूपयोगि तथा 'स्निग्धं घृतपूरादि, तस्माद्धन्या अमी सुखं जीवन्ति, एवं 'तद्गुणविकत्थनया' तद्गुणप्रशंसया 'अभुञ्जानेऽपि' अनभ्यवहरत्यपि 'अनुमन्या, अनुमोदना, इह अनुमन्याजनितो दोषोऽपि कार्ये कारणोपचारादनुमन्येत्युक्तः, ततोऽयमर्थः-अभुञ्जानेऽपि अनुमोदनाद्वारेणाधाकर्मभोजिन इव दोषो भवतीति, अन्ये तु तद्गुणविकत्थनामेवं योजयन्ति-आधाकर्मभोजिनं कोऽपि कन्दर्पणानाभोगेन वा पृच्छति–साधु लब्धं त्वया भोजनं, तथा पर्याप्तं, तथा आदरेण भक्त्या इत्यादि?, तत्राप्यविरोधः॥ तदेवमुक्तान्याधाकर्मणो नामानि तदुक्तौ च यदुक्तं प्राग् मूलद्वारगाथायाम् ' आधाकम्मियनामा' इति तद्व्याख्यातं, सम्प्रति 'एगट्टा' इत्यवयवं व्याचिख्यासुरिदमाह--
आहा अहे य कम्मे आयाहम्मे य अत्तकम्मे य । जह वंजणनाणत्तं अत्थेणऽवि पुच्छए एवं ॥ १२९ ॥
व्याख्या-अत्र पर एवं पृच्छति, यथा आधाकर्म अधःकर्म आत्मघ्नमात्मकर्म इत्येतेषु चतुर्पु नामसु व्यञ्जनैर्नानात्वं विद्यते, तथा 'अर्थेनापि ' अर्थापेक्षयापि, नानात्वमस्ति किंवा न? इति, पृच्छतश्चायमभिप्रायः-इह आधाकर्मादीनां नाम्नां सर्वेषामपि व्युत्प-18 तिनिमित्तं पृथक् पृथगुक्तं, तद्यथा-आधया कर्म आधाकर्म, अत्र साधुविषयमणिधानपुरस्सरपाकादिक्रियास्वारम्भो व्युत्पत्तिनिमित्तम् ,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org