________________
पिण्डनियु
तर्मलयगि
रीयावृत्तिः
॥४८॥
रणादनुमोदना, एवं यतिजनेऽप्याषाकर्मणो भोक्तरि 'विभाषितव्याः' योजनीयाः, अत्र यः स्वयमानीयान्यैः सह भुड़े तत्र प्रथमतो प्रतिश्रवणे योज्यन्ते, तस्याऽऽधाकर्म गृहस्थगृहादानीय भुञ्जानस्य प्रतिषेवणं, गृहस्थेनाऽऽधाकर्मग्रहणाय निमन्त्रितस्य तद्हणाभ्युपगमः प्रतिश्र- राजसुतोवणं, यस्मै तदाधाकर्म आनीय संविभागेन प्रयच्छति तेन सहकत्र संवसतः संवासः, तत्रैव बहुमानकरणादनुमोदना, यश्चान्येनाऽऽनीत- दा० संवामाधाकर्म निमन्त्रितः सन् भुते तस्य प्रथमतो निमन्त्रणाऽनन्तरमभ्युपगच्छतः प्रतिश्रवणं, ततो भुञानस्य प्रतिषेवणं, निमन्त्रकेण सहै
से पल्युदा० कत्र संवसतः संवासः, तत्र बहुमानकरणादनुमोदना, तदेवं यत्र प्रतिषेवणं तत्र नियमतश्चत्वारोऽपि दोषाः, प्रतिश्रवणे च केवले त्रयः, संवासे द्वौ, अनुमोदनायां त्वनुमोदनैव केवला, अत एवादिपदं गुरु शेषाणि तु पदानि लघुलघुलघुकानीति ॥ सम्पति संवासे पल्लीदृष्टान्तं भावयतिपल्लीवहंमि नट्ठा चोरा वणिया वयं न चोरत्ति । न पलाया पावकरत्ति काउं रन्ना उवालद्धा ॥ १२५॥
व्याख्या-वसन्तपुरं नाम नगरं, तत्रारिमर्दनो नाम राजा, तस्य प्रियदर्शना देवी, तस्य वसन्तपुरस्य प्रत्यासन्ना भीमाभिधाना पल्ली, तस्यां च बहवो भिल्लरूपा दस्यवः परिवसन्ति वणिजश्च, ते च दस्यवः सदैव स्वपल्ल्या विनिर्गत्य सकलमप्यरिमर्दनराजमण्डलमुपद्रवन्ति, न स कश्चिदस्ति राज्ञः सामन्तो माण्डलिको वा यस्तान् साधयति, ततोऽन्यदा तत्कृतं सकलमण्डलोपद्रवमाकर्ण्य महाकोपावेशपूरितमानसो राजा स्वयं महती सामग्री विधाय भिल्लान् प्रति जगाम, भिल्लाश्च पल्लिं मुक्त्वा सम्मुखीभूय सङ्ग्रामं दातुमुद्यताः, राजा प्रबलसेनापरिकलिततया तान् सर्वानप्यवगणय्य सोत्साहो हन्तुमारब्धवान्, ते चैवं हन्यमानाः केऽपि तत्रैव परासवो बभूवुः, केऽपि पुनः||| पलायितवन्तः, राजा च सामर्षः पल्लीं गृहीतवान्, वणिजश्च तत्रत्या न वयं चौरास्ततः किमस्माकं राजा करिष्यति ? इति बुद्धया नाने
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org