________________
..
___ व्याख्या-इह किल केनापि साधुना चत्वारः साधव आधाकर्मणे निमन्त्रिता यथा मुग्ध्वं यूयमेनमाहारमिति, तत्रैवं निमन्त्रणे कृते प्रथमो भुते, द्वितीयः माह-नाहं भुञ्जे मुड्क्ष्व त्वमिति, तृतीयो मौनमाश्रितः, चतुर्थः पुनः प्रतिषिद्धवान् यथा-न कल्पते । साधूनामाधाकर्म तस्मादहं न भुञ्जे इति, तत्र त्रयाणामाद्यानां प्रतिश्रवणदोषः, चतुर्थस्य प्रतिषेधतः 'सा' तत्प्रतिश्रवणं नास्ति, अत्राह-नन्वाद्यस्याधाकर्म भुञ्जानस्य प्रतिषेवणलक्षण एव दोषः, कथं प्रतिश्रवणदोष उक्तः ?, उच्यते, इह यदाऽऽधाकर्मनिमन्त्रितः संस्तद्भोजनमभ्युपगच्छति तदा नाद्यापि प्रतिषेवणमिति प्रतिश्रवणदोषः, तत ऊर्दू तु प्रतिषेवणं, ततो न कश्चिदोषः ॥ अथामीषामेव भोजकादीनां कस्कः कायिकादिको दोषः स्याद् ?, अत आह___ आणंत जगा कम्मुणा उ बीयस्स वाइओ दोसो । तइयरस य माणसिओ तीहिं विसुद्धो चउत्थो उ॥१२३॥
व्याख्या-इह य आधाकर्मणः स्वयमानेता यश्चानीतस्य निमन्त्रितः सन् भोक्ता तौ द्वावपि कर्मणा-आनयनभोजनरूपया | कायक्रियया तुशब्दान्मनसा वाचा च दोषवन्तो, द्वितीयस्य तु भुक्ष्व त्वं नाहं भुञ्जे इति ब्रुवाणस्य वाचिको दोषः, उपलक्षणमेतन्मानसिकश्च, तृतीयस्य तु तूष्णीं स्थितस्य मानसिको, यस्तु चतुर्थः स त्रिभिरपि दोपैर्विशुद्धः, तस्माच्चतुर्थकल्पेन सर्वदैव साधुना भवितव्यम् ॥ सम्मति दृष्टान्तोक्तस्य कुमारस्य ये दोषाः संप्रभवन्ति तानुपदाधाकर्मणो भोक्तरि योजयतिपडिसेवण पडिसुणणा संवासऽणुमोयणा उ चउरोवि । पियमारग रायसुए विभासियव्वा जइजणेऽवि ॥ १२४॥
व्याख्या-पितृमारके राजसुते प्रतिषेवणप्रतिश्रवणसंवासानुमोदनारूपाश्चत्वारोऽपि दोषा घटन्ते, तथाहि-तस्य स्वयं पितृमारणाय प्रवृत्तत्वात्प्रतिषेवणं, वयं तव सहाया इति निजभटवचनं प्रतिपद्यमानस्य प्रतिश्रवणं, तैरेव सार्द्धमेकत्र निवसनेन संवासः, तेषु बहुमानक
an Educonora
For Personal & Private Use Only
www.janelibrary.org