SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ESSAGR55-51-ASE शब्दकरणं 'छेलिय'त्ति सेंटितं सीत्कारकरणं विघुष्टं च-विरूपघोषकरणं उत्कृष्टं च-उत्कृष्टिनाद आनन्दमहाध्वनिरित्यर्थः कण्ठकृतशब्दश्च-तथाविधो गलरवः त एव भीमगर्जितं-मेघध्वनियंत्र स तथा तत्र, तथा 'सयराहत्ति एकहेलया हसतां रुष्यतां वा कलकललक्षणो रखो यत्र स तथा आशूनितेन-ईषत्स्थूलीकृतेन कावदनेन ये रौद्रा-भीषणास्ते तथा, तथा भीमं यथा भवतीत्येवं दशनैरधरोष्ठो गाढं दष्टो यैस्ते तथा, ततः कर्मधा-1 रयः, ततस्तेषां भटानां सत्प्रहारणे-सुष्टु प्रहारकरणे उद्यता:-प्रयत्नप्रवृत्ताः करा यत्र स तथा तत्र, तथा अमर्षवशेन-कोपवशेन तीव्र-अत्यर्थ रक्ते-लोहिते निहरिते-विस्फारिते अक्षिणी-लोचने यत्र स तथा, वैरप्रधाना दृष्टिः वैरदृष्टिस्तया वैरदृष्ट्या-वैरबुद्ध्या वैरभावेन ये ऋद्धाश्चेष्टिताश्च तैत्रिवलीकुटिला-वलित्रयवक्रा भ्रकुटि: -नयनललाटविकारविशेषः कृता ललाटे यत्र स तथा तत्र, वधपरिणतानां-मारणाध्यवसायवतां नरसहस्राणां| विक्रमेण-पुरुषकारविशेषेण विजृम्भितं-विस्फुरितं बलं-शरीरसामर्थ्य यत्र स तथा तत्र, तथा वल्गत्तुरङ्गैः रथैश्च प्रधाविता-वेगेन प्रवृत्ता ये समरभटा:-सनामयोद्धास्ते तथा, आपतिता-यो मुद्यताः छेका-दक्षा लाघवप्रहारेण-दक्षताप्रयुक्तघातेन साधिता-निर्मिता यैस्ते तथा, 'समूसविय'त्ति समुच्छ्रितं हर्षातिरेकादूवी-| कृतं बाहुयुगलं यत्र तत्तथा तद्यथा भवतीत्येवं मुक्ताहासाः-कृतमहाहासध्वनयः 'पुकंत'त्ति पूत्कुर्वन्तः पू.] लत्कारं कुर्वाणास्ततः कर्मधारयः ततस्तेषां यो बोल:-कलकलः स बहुलो यत्र स तथा तत्र, तथा 'फुरफल गावरणगहिय'त्ति स्फुराश्च फलकानि च आवरणानि च-सन्नाहा गृहीतानि यैस्ते तथा 'गयवरपत्थित त्ति प्र.व्या.९ Jain Educa t ional For Personal & Private Use Only RA .jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy