SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक र० श्रीअ भयदेव० वृत्तिः ॥ ४९ ॥ गजवरान - रिपुमतङ्गजान् प्रार्थयमाना - हन्तुमारोढुं वाऽभिलषमाणास्तत्र शक्तास्तच्छीला वा ये ते तथा ततः कर्मधारयस्ततस्ते च ते दृप्तभटखलाश्च दर्पित योधदुष्टा इति समासः, ते च ते परस्परप्रलग्ना - अन्योऽन्यं योद्धुमारब्धा इत्यर्थः ते च ते युद्धगर्विताञ्च-योधनकलाविज्ञानगर्वितास्ते च ते विकोसितवरासिभिः - निष्कर्षितवरकरवाले: रोषेण - कोपेन त्वरितं शीघ्रं अभिमुखं- आभिमुख्येन प्रहरद्भिः छिन्नाः करिकरा यैस्ते तथा ते चेति समासस्तेषां 'वियंगिय'त्ति व्यङ्गिताः - खण्डिताः करा यत्र स तथा तत्र, तथा 'अवइद्ध' ति अपविद्वा:- तोमरादिना सम्यग्विद्धा निशुद्धं भिन्ना-निर्भिन्नाः स्फाटिताश्च - विदारिता ये तेभ्यो यत् प्रगलितं रुधिरं तेन कृतो भूमौ यः कर्दमस्तेन चिलीचिविलाः (ल्लाः) - चिलीनाः पन्थानो यत्र स तथा, कुक्षौ दारिताः कुक्षिदारिताः गलितं रुधिरं श्रवन्ति रुलन्ति वा भूमौ लुठन्ति निर्भीलितानि - कुक्षितो बहिष्कृतानि अत्राणि - उदरमध्यावयवविशेषाः येषां ते तथा, 'फुरफुरंत विगल' त्ति फुरफुरायमाणाश्च विकलाश्च निरुद्धेन्द्रियवृत्तयो ये ते तथा मर्मणि आहता मर्माहताः विकृतो गाढो दत्तः प्रहारो येषां ते तथा अत एव मूर्च्छिताः सन्तो भूमौ लुठन्तः विह्वलाश्च निस्सहाङ्गा ये ते तथा, ततः कुक्षिदारितादिपदानां कर्मधारयः, ततस्तेषां विलापः - शब्दविशेषः करुणोदयास्पदं यत्र स तथा तत्र, तथा हता - विनाशिताः योधाः - अश्वारोहादयो येषां ते तथा ते भ्रमन्तो- यदृच्छया सञ्चरन्तस्तुरगाश्च उद्दाममत्तकुञ्जराश्च परिशङ्कितजनाश्च-भीतजना नियुक्वच्छिन्नध्वजाःनिर्मूलनिकृत्तकेतवो भग्ना- दलिता रथवराश्च यत्र स तथा, नष्टशिरोभिः - छिन्नमस्तकैः करिकलेवरैः - दन्ति Jain Education International For Personal & Private Use Only ३ अधर्म द्वारे अदत्तादानकारकाः सू० ११ ॥ ४९ ॥ www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy