________________
शरीरैराकीर्णा-व्याप्ताः पतितप्रहरणा:-ध्वस्तायुधा विकीर्णाभरणा-विक्षिप्तालङ्कारा भूमे गा-देशा यत्र स तथा ततः कर्मधारयः तत्र, तथा नृत्यन्ति कबन्धानि-शिरोरहितकडेवराणि प्रचुराणि यन्त्र स तथा भयङ्करवायसानां 'परिलिंतगिद्ध'त्ति परिलीयमानगृद्धानां च यत् मण्डलं-चक्रवालं भ्राम्यत्-संचरत् तस्य या छाया तया यदन्धकारं तेन गम्भीरो यः स तथा तत्र, सङ्घामेऽपरे राजानः परधनगृद्धा अतिपतन्तीति प्रकृतं, अथ पूर्वोक्तमेवार्थ सङ्क्षिप्ततरेण वाक्येनाह-वसवो-देवा वसुधा च-पृथिवी च कम्पिता यैस्ते तथा ते इव राजान इति प्रक्रमः प्रत्यक्षमिव-साक्षादिव तद्धर्मयोगात् पितृवनं-श्मशानं प्रत्यक्षपितृवनं 'परमरुद्दबीहणगं'ति अत्यर्थदारुणभयानकं दुष्प्रवेशतरक-प्रवेष्टुमशक्यं सामान्यजनस्येति गम्यं अतिपतन्ति-प्रविशन्ति सङ्ग्रामसङ्कट-सङ्ग्रामगहनं परधनं-परद्रव्यं 'महंतत्ति इच्छन्त इति, तथाऽपरे-राजभ्योऽन्ये पाइक्कचोरसंघाःपदातिरूपचौरसमूहाः, तथा सेनापतयः, किंवरूपाः?-चौरवृन्दप्रकर्षकाश्च तत्प्रवर्तका इत्यर्थः, अटवीदेशे यानि दुर्गाणि-जलस्थलदुर्गरूपाणि तेषु वसन्ति ये ते तथा, कालहरितरक्तपीतशुक्लाः पञ्चवर्णा इतिया|वत् अनेकशतसङ्ख्याश्चिहपट्टा बद्धा यैस्ते तथा परविषयानभिन्नन्ति, लुब्धा इति व्यक्तं, धनस्य कार्ये-धनकृते इत्यर्थः, तथा रत्नाकरभूतो यः सागरः स तथा तं चातिपत्याभिनन्ति जनस्य पोतानिति सम्बन्धः, उर्मयोवीचयस्तत्सहस्राणां माला:-पतयस्ताभिराकुलो यः स तथा, आकुला-जलाभावेन व्याकुलितचित्ता ये |वितोयपोता:-विगतजलयानपात्राः सांयात्रिकाः 'कलकलिंत'त्ति कलकलायमाना:-कोलाहलबोलं कुर्वाणास्तैः
C- ICROMAXISRO
Jain Education
!
For Personal & Private Use Only
nelibrary.org