SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक र० श्रीअ भयदेव० वृत्तिः ॥ ५० ॥ कलितो यः स तथा अनेनास्यापेयजलत्वमुक्तं, अथवा उर्मिसहस्रमालाभिः आकुलाकुलः - अतिव्याकुलो यः स तथा, तथा वियोग पोतैः - विगतसम्बन्धनवोधिस्यैः कलकलं कुर्वद्भिः कलितो यः स तथा ततः कर्मधारयोऽतस्तं, तथा पातालाः - पातालकलशास्तेषां यानि सहस्राणि तैर्वातवशाद्वेगेन यत्सलिलं - जलधिजलं 'उममाणं ति य उत्पाट्यमानं तस्य यदुदकरजः - तोयरेणुस्तदेव रजोऽन्धकारं - धूलीतमो यत्र स तथा तं वरः फेनो- डिण्डीर: प्रचुरो धवल: 'पुलंपुल'त्ति अनवरतं यः समुत्थितो जातः स एवाहहासो यत्र वरफेन एव वा प्रचुरादिविशेषणोऽट्टहासो यत्र स तथा तं, मारुतेन विक्षोभ्यमाणं पानीयं यत्र स तथा जलमालानां| जलकल्लोलानामुत्पीलः - समूहो 'हुलिय'त्ति शीघ्रो यत्र स तथा ततः कर्मधारयोऽतस्तं, अपिचेति समुच्चये, तथा समन्ततः सर्वतः क्षुभितं वायुप्रभृतिभिर्व्याकुलितं लुलितं-तीरभुवि लुठितं 'खोखुग्भमाण' त्ति महामत्स्यादिभिर्भृशं व्याकुलीक्रियमाणं प्रस्खलितं-निर्गच्छत्पर्वतादिना स्खलितं चलितं- स्वस्थानगमनप्रवृत्तं विपुलं विस्तीर्ण जलचक्रवालं - तोयमण्डलं यत्र स तथा, महानदी वेगैः - गङ्गानिम्नगाजवैः त्वरितं यथा भवतीत्येवमापूर्यमाणो यः स तथा गम्भीरा - अलब्धमध्याः विपुला विस्तीर्णाश्च ये आवर्त्ता - जलभ्रमणस्थानरूपाः तेषु चपलं यथा भवतीत्येवं भ्रमन्ति-सञ्चरन्ति गुप्यन्ति-व्याकुलीभवन्ति उच्छलन्ति - उत्पतन्ति उच्चलन्ति वा ऊर्द्धमुखानि चलन्ति प्रत्यवनिवृत्तानि वा - अधः पतितानि पानीयानि प्राणिनो वा यत्र स तथा अथवा जलचक्रवालान्तं नदीनां विशेषणमापूर्यमाणान्तं चावर्त्तानामिति, तथा प्रधाविताः - वेगितगतयः ख Jain Education International For Personal & Private Use Only ३ अधर्मद्वारे अदत्तादानकारकाः सू० ११ ।। ५० ।। www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy