SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ३ अधर्म प्रश्नव्याकर० श्रीअभयदेव. वृत्तिः द्वारे अदत्तादानकारकाः सू० ११ ॥४८॥ भस्तलं यत्र स तथा तत्र सङ्घामे, तथा 'स्फुटप्रहरणे स्फुटानि-व्यक्तानि प्रहरणानि यत्र स तथा तत्र सङ्कामे, तथा महारणस्य सम्बन्धीनि यानि शङ्खश्च भेरी च-दुन्दुभीः वरतूर्य-लोकप्रतीतं तेषां प्रचुराणां पटूनां-स्पष्टध्वनीनां पटहानां च-पटहकानां आहतानां-आस्फालितानां निनादेन-ध्वनिना गम्भीरण-बहलेन ये नन्दिता-हृष्टा प्रक्षुभिताश्च-भीतास्तेषां विपुलो-विस्तीर्णो घोषो यत्र स तथा तत्र, हयगजरथयोद्धेश्यः सकाशात् त्वरितं-शीघ्र प्रसृतं-प्रसरमुपगतं यद्रजो-धूली तदेवोद्धततमान्धकारं-अतिशयप्रबलतमित्रं तेन बहुलो यः स तथा तत्र, तथा कातरनराणां नयनयोहृदयस्य च 'वाउल'त्ति व्याकुलं क्षोभं करोतीत्येवंशीलो यः स तथा तत्र, तथा विलुलितानि-शिथिलतया चञ्चलानि यान्युत्कटवराणि-उन्नतप्रवराणि मुकुटानि-मस्तकाभरणविशेषास्तिरीटानि च-तान्येव शिखरत्रयोपेतानि कुण्डलानि च-कर्णाभरणानि उडदामानि च-नक्षत्रमालाभिधानाभरणविशेषास्तेषामाटोपः-स्फारता सा विद्यते यत्र स विलुलितोत्कटवरमुकुटतिरीटकुण्डलोहुदामाटोपिक इति, तथा प्रकटा या पताका उच्छ्रिता-ऊद्धीकृता ये ध्वजा-गरुडादिध्वजा वैजयन्त्यश्व-विजयसूचिकाः पताका एव चामराणि च चलन्ति छत्राणि च तेषां सम्बन्धि यदन्धकारं तेन गम्भीरः-अलब्धमध्यो यः स तथा ततः कर्मधारयस्ततस्तत्र, तथा हयानां यत् हेषितं-शब्दविशेषः हस्तिनांच यद् गुलुगुलायितं-शब्दविशेष एव तथा रथानां यत् 'घणघणाइय'त्ति घणघणेत्येवंरूपस्य शब्दस्य करणं तथा 'पाइक'त्ति पदातीनां यत् 'हरहराइय'त्ति हरहरेतिशब्दस्य करणं आस्फोटितं च-करास्फोटरूपं सिंहनादश्च-सिंहस्येव २ घणहयानां सम्ब ॥४८॥ dain Education International For Personal & Private Use Only mmmjainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy