SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ पंचविहो पण्णत्तो जिणेहिँ इह अण्हओ अणादीओ। हिंसामोसमदत्तं अब्बंभपरिग्गहं चेव ॥२॥ __'पंचविहीं' गाथा । पञ्चविधः-पश्चप्रकारः प्रज्ञप्तः-प्ररूपितो जिनैः-रागादिजेतृभिः इह-प्रवचने लोके वा आ नवः-आश्रवः अनादिकः-प्रवाहापेक्षयाऽऽदिविरहितः उपलक्षणत्वादस्य नानाजीवापेक्षया अपर्यवसित इत्यपि ४ दृश्यं सादित्वे सपर्यवसितत्वे वाऽऽश्रवस्य कर्मबन्धाभावेन सिद्धानामिव सर्वसंसारिणां बन्धाद्यभावप्रसङ्गः, अथवा ऋणं-अधमर्णेन देयं द्रव्यं तदतीतोऽतिदुरन्तत्वेनातिक्रान्तः ऋणातीतः अणं वा-पापं कर्म आदि:कारणं यस्य स अणादिकः, नहि पापकर्मवियुक्ता आश्रवे प्रवर्तन्ते, सिद्धानामपि तत् प्रवृत्तिप्रसङ्गादिति, तमेव नामत आह-हिंसा-प्राणवधः 'मोसं ति मृषावादं अदत्तं-अदत्तद्रव्यग्रहणं अब्रह्मच मैथुनं परिग्रहश्च-स्वीकारो अब्रह्मपरिग्रहं, चकारः समुच्चये, एवशब्दोऽवधारणे, एवं चास्य सम्बन्धः अब्रह्म परिग्रहमेव चेति, अवधारणार्थश्चैवं-हिंसादिभेदत एव पश्चविधा, प्रकारान्तरेण तु द्विचत्वारिंशद्विधो, यदाह-"इंदिय ५ कसाय ४ अव्वय ५ किरिया २५ पण चउर पंच पणवीसा । जोगा तिन्नेव भवे बायाला आसवो होइ ॥१॥” त्ति [इन्द्रियाणि कषायाः अव्रतानि क्रियाः पञ्च चत्वारः पञ्च पञ्चविंशतिः। योगास्त्रय एव भवेयुः द्विचत्वारिंशदाश्रवा भवन्ति ॥१॥] एवं चानया गाथयाऽस्य दशाध्ययनात्मकस्याङ्गस्य पश्चानामाश्रवाणामभिधायका|न्याद्यानि पश्चाध्ययनानि सूचितानि, तत्र प्रथमाध्ययनविनिश्च(या)यप्रथमाश्रववक्तब्यतानुगमार्थमिमां द्वारगाथामाह in Educa For Personal & Private Use Only sanelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy