SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ |१ आश्रवे यादृशादीनिद्वाराणि प्रश्नव्याक जारिसओ जनामा जह य कओ जारिसं फलं देति । जेविय करेंति पावा पाणवहं तं निसामेह ॥३॥ र० श्रीअ- 'जारिसों गाहा, यादृशको-यत्वरूपकः, यानि नामानि यस्येति यन्नामा यदभिधान इत्यर्थः, यथा भयदेव. पाच कृतो-निवर्तितः प्राणिभिर्भवतीति, यादृशं-यत्वरूपं फलं-कार्य दुर्गतिगमनादिकं ददाति-करोति, वृत्तिः येऽपि च कुर्वन्ति पापा:-पापिष्टाः प्राणा:-प्राणिनस्तेषां वधो-विनाशः प्राणवधस्तं, 'तंति तत्पदार्थपञ्चक 'निसामेह'त्ति निशमयत शृणुत मम कथयत इति शेषः। तत्र 'तत्त्वभेदपर्यायाख्येति न्यायमाश्रित्य यादृशक इत्यनेन प्राणिवधस्य तत्त्वं निश्चयतया प्रतिज्ञातं, यन्नामेत्यनेन तु पर्यायव्याख्यानं, शेषद्वारत्रयेण तु भेदव्याख्या, करणप्रकारभेदेन फलभेदेन च तस्यैव प्राणिवधस्य भिद्यमानत्वात्, अथवा यादृशो यन्नामा वेत्यनेन स्वरूपतः प्राणिवधश्चिन्तितस्तत्पर्यायाणामपि याथार्थ्यतया तत्स्वरूपस्यैवाभिधायकत्वात्, यथा च कृतो ये च कुर्वन्तीत्यनेन तु कारणतोऽसौ चिन्तितः, करणप्रकाराणां कर्तृणां च तत्कारणत्वात् , यादृशं फलं ददातीत्यनेन तु कार्यतोऽसौ चिन्तितः, एवं च कालत्रयवर्तिता तस्य निरूपिता भवतीति, अथवा अनुगमाख्यतृतीयानुयोगद्वारावयवभूतोपोद्घातनिर्युक्त्यनुगमस्य प्रतिद्वाराणां 'किं कइविह'मित्यादीनां मध्यात् कानिचिदनया गाथया तानि दर्शितानि, तथाहि-यादृशक इत्यनेन प्राणिवधखरूपोपदर्शकं किमित्येतत् द्वारमुक्तं, यन्नामेत्यनेन तु निरुक्तिद्वारं, एकार्थशब्दविधानरूपत्वात तस्य, 'सम्मद्दिट्ठी अमोहो' इत्यादिना गाथायुगेन सामायिकनिर्युक्तावपि सामायिकनिरुक्तिप्रतिपादनात्, यथा च कृत इत्यनेन कथमिति द्वारमभिहितं, ये ॥४॥ Jain Educati o nal For Personal & Private Use Only nelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy