________________
प्रश्नव्याकर० श्रीअ
भयदेव० वृत्तिः
॥ ३ ॥
स्योक्तं, प्रवचनस्य क्षायोपशमिकभावरूपत्वेनोपक्रमाख्यानुयोगद्वारस्य नामाख्यप्रतिभेदस्य षण्णामाख्यप्रतिद्वारस्यावतारश्च दर्शितः, षण्णामद्वारे ह्यौदयिकादयः षड् भावाः प्ररूप्यन्त इति, निश्चयार्थमनेन त्वस्य शात्रस्य निश्चयलक्षणमनन्तरप्रयोजनमुक्तं, तद्भणनेन हि तदर्थिनः प्रेक्षावन्तोऽत्र प्रवर्त्तिता भवन्त्विति, नहि निष्प्रयोजनं प्रेक्षावन्तः कर्त्तुं श्रोतुं वा प्रवर्त्तन्ते, प्रेक्षावत्ताहानिप्रसङ्गात्, एवं चानुगमाख्यतृतीयानुयोगद्वारस्योपोद्घातनिर्युक्त्यभिधानप्रतिद्वारस्य प्रतिभेदभूतं कारणद्वारमभिहितं यतस्तत्रेदं चिन्त्यते - केन कारणेनेदमध्ययनमुक्तमिति, इहापि च तस्यैव निश्चयरूपस्य शास्त्रप्रतिपादनकारणस्य चिन्तितत्वात् नन्वाश्रवसं| वरविनिश्चयमित्युक्तावपि निश्चयार्थमित्युच्यमानमतिरिच्यमानमिवाभाति, यत्र ह्याश्रवसंवरा विनिश्रीयन्ते तत् तद्विनिश्चयार्थ भवत्येवेति, सत्यं, किन्तु आश्रवसंवरविनिश्चयमित्यनेनाभिधेयविशेषाभिधायकत्व - लक्षणं तत्स्वरूपमात्रमेव विवक्षितं, निश्चयार्थमनेन तु तत्फलभूतं प्रयोजनमिति न पुनरुक्ततेति, प्रयोजनं च प्रतिपादयतोपायो पेयभावलक्षणोऽपि सम्बन्धो दर्शितो भवति, यत इदं शास्त्रमुपायो निश्चयश्चास्योपेयमित्ये| वरूप एवासाविति । यद्यपि चानुयोगद्वाराण्यध्ययन स्यैवावश्य कादावुपदश्र्यन्ते तथापीहाङ्गे श्रुतस्कन्धयोरध्ययन समुदायरूपत्वात् कथञ्चिदुपक्रमादिद्वाराणां युज्यमानत्वात् यथासम्भवं गाथावयवैर्दर्शितानि, अत एवाचारटीका कृताऽङ्गमुद्दिश्य तान्युपदर्शितानि । अनन्तरमाश्रवसंवरा इहाभिधेयत्वेनोक्ताः, तत्र च 'यथोद्देशं निर्देश' इति न्यायादाश्रवांस्तावत्परिमाणतो नामतश्च प्रतिपादयन्नाह -
Jain Educatictional
For Personal & Private Use Only
१ आश्रवे शास्त्रप्रस्तावना
॥३॥
nelibrary.org