SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ विधुरं-अपायो व्यसनं-राजादिकृताऽऽपत् एतेषां मार्गणं च उत्सवेषु मत्तानां च प्रमत्तानां च प्रसुप्तानां च वञ्चनं च-प्रतारणं आक्षेपणं च-चित्तव्यग्रतापादनं घातनं च-मारणमिति द्वन्द्वः तत एतत्परः-एतनिष्ठः अनिभृतः-अनुपशान्तः परिणामो यस्यासौ छिद्रान्तरविधुरव्यसनमार्गणोत्सवमत्तप्रमत्तप्रसुप्तवञ्चनाक्षेपणघातनपरानिभृतपरिणामः स चासौ तस्करजनस्य तस्य बहुमतं यत्तत्तथा, वाचनान्तरे त्विदमेवं पठ्यते-छिद्रविषमपापकं च-नित्यं छिद्रविषमयोः सम्बन्धीदं पापमित्यर्थः, अन्यदा हि तत्पापं प्रकर्तुमशक्यमिति भावः, अनिभृतपरिणाम-सक्लिष्टं तस्करजनबहुमतं चेति, अकरुणं-निर्दयं राजपुरुषरक्षितं तैर्निवारितमित्यर्थः सदा साधुगर्हणीयं प्रतीतं प्रियजनमित्रजनानां भेद-वियोजनं विप्रीतिं च-विप्रियं करोति यत्तत्तथा, रागद्वेषबहुलं प्रतीतं, पुनश्च-पुनरपि 'उप्पूर'त्ति उत्पूरेण-प्राचुर्येण समरो-जनमरकयुक्तो यः सङ्ग्रामो-रणः स उत्पूरसमरसङ्ग्रामः स च डमरः-विडुरः कलिकलहश्च-राटीकलहो न तु रतिकलहः वेधश्च-अनुशयः एतेषां करणं-कारणं यत्तत्तथा, दुर्गतिविनिपातवर्द्धनं प्रतीतं भवे-संसारे पुनर्भवान-पुनःपुनरुत्पादान् करोतीत्येवंशीलं यत्तत्तथा, चिरं परिचितं प्रतीतं अनुगतं-अव्यवच्छिन्नतयाऽनुवृत्तं दुरन्त-दुष्टावसानं विपाकदारुणत्वात् तृतीयमधर्मद्वारं-पापोपाय इति । तदियता यादृश इत्युक्तं, अथ यन्नामेत्यभिधातुमाह तस्स य णामाणि गोन्नाणि होति तीसं, तंजहा-चोरिकं १ परहडं २ अदत्तं ३ कूरिकडं ४ परलाभो ५ असंजमो ६ परधर्णमि गेही ७ लोलिकं ८ तकरतणंति य ९ अवहारो १० हत्थलहुत्तणं ११ पाचकम्मकरणं भ.व्या.८ Jain Education in For Personal & Private Use Only nelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy