________________
Jain Education
| चारिकाणां नकरं - करवर्जितं, पत्तनं द्विविधं - जलपत्तनं स्थलपत्तनं च यत्र जलपथेन भाण्डानामागमस्तदाद्यं. यत्र च स्थलपथेन तदितरत्, चारिकाणां - प्रणिधिपुरुषाणां, तथा पारे - पर्यन्ते मार्गस्य घातिका गन्तृणां ह ननं पारघातिका 'पंथघाइयन्ति पथि मार्गे अर्द्धपथे इत्यर्थः घातिका गन्तॄणां हननं पथिघातिका अनयोइन्द्रोऽतस्ते, साधयन्ति च ग्रन्थिभेदानां - चौरविशेषाणां कृतां च चौरिकां-चोरणं नगरगुप्तिकानां - नगररक्षकाणां साधयन्तीति वर्त्तते, तथा लाञ्छनं- कर्णादिकल्पनाऽङ्कनादिभिर्निर्लाञ्छनं वर्द्धितककरणं 'धमणं' तिध्मानं महिष्यादीनां वायुपूरणं दोहनं प्रतीतं पोषणं - यवसादिदानतः पुष्टिकरणं वञ्चनं - वत्सस्यान्यमातरि योजनं 'दुमणं' ति दुवनमुपतापनमित्यर्थः वाहनं शकटाद्याकर्षणं एतदादिकानि अनुष्ठानानि साधयन्ति बहूनि गोमिकानां - गोमतां, तथा धातुः - गैरिकं धातवो वा लोहादयः मणयः - चन्द्रकान्ताद्याः शिला- दृषदः प्रवा लानि-विद्रुमणि रत्नानि - कर्केतनादीनि तेषामाकराः - खानयस्तान् साधयन्त्याकरिणां आकरवतां, 'पुष्पेत्यादि वाक्यं प्रतीतं, नवरं विधिः प्रकारः, तथा अर्थश्च मूल्यमानं मधुकोशकाश्च क्षौद्रोत्पत्तिस्थानानि अर्थमधुकोशकास्तान् साधयन्ति वनचराणां - पुलीन्द्राणां तथा यन्त्राणि - उच्चाटनाद्यर्थाक्षरलेखनप्रकारान् जलसङ्ग्रामादियत्राणि वा उदाहरन्तीति योगः, विषाणि-स्थावरजङ्गमभेदानि हालाहलानि मूलकर्म्म- मूलादिप्रयोगतो गर्भपातनादि 'आहेवण'ति आक्षेपं पुरक्षोभादिकरणं पाठान्तरेण 'आहिव्वणं'ति आहित्यं अहितत्वं - शत्रुभावं पाठान्तरेण 'अविंधण'त्ति आव्यधनं मन्त्रावेशनमित्यर्थः अभियोग्यं वशीकरणादि तच्च
For Personal & Private Use Only
ainelibrary.org