________________
प्रश्नव्याकर० श्रीअ- भयदेव०
अधर्मद्वारे मृषावादिनः
वृत्तिः
सू०७
॥३७॥
सा येषामस्ति ते वागुरिणः, तित्तरवर्तकलावकांश्च कपिचलकपोतकांच-पक्षिविशेषान् साधयन्ति शकुनन- श्येनादिना मृगयां कुर्वन्तीति शाकुनिकास्तेषां, साउणीणमिति प्राकृतत्वात्, झषमकरान् कच्छपांश्च-ज- लचरविशेषान् साधयन्ति, मत्स्याः पण्यं येषां ते मात्स्यिकास्तेषां, 'संखंकत्ति शङ्खाः प्रतीताः अङ्काश्च-रूढिगम्याः अतस्तान क्षुल्लकांश्च-कपईकान् साधयन्ति, मकरा इव मकरा जलविहारित्वाद्धीवरास्तेषां, पाठान्तरे मग्गिणां -मार्गयतां तद्गवेषिणां, अजगरगोनसमण्डलिदवीकरमुकुलिनश्च साधयन्ति, तत्र अजगरादय उरगविशेषाः दीकरा:-फणभृतः मुकुलिनः-तदितरे, व्यालान्-भुजङ्गान् पान्तीति व्यालपास्ते विद्यन्ते येषां ते व्यालपिनः तेषां, अथवा व्यालपानामत्र प्राकृतत्वेन-बालवीणंति प्रतिपादितं, वाचनान्तरे 'वायलियाणं ति दृश्यते, तत्र व्यालैश्चरन्तीति वैयालिकास्तेषां वैयालिकानामिति, तथा गोधाः सेहाश्च शल्यकशरटकांश्च साधयन्ति लुब्धकानां, गोधादयो भुजपरिसप्पविशेषाः शरटका:-कृकलाशाः, गजकुलवानरकुलानि च साधयन्ति पाशिकानां, कुलं-कुटुंबं यूथमित्यर्थः, पाशेन-बन्धनविशेषेण चरन्तीति पाशिकास्तेषां, शुकाः-कीरा बहिणोमयूराः मदनशाला:-शारिकाः कोकिला:-परभृतः हंसा:-प्रतीतास्तेषां यानि कुलानि-वृन्दानि तानि तथा, सारसांश्च साधयन्ति पोषकाणां-पक्षिपोषकाणामित्यर्थः, तथा वधः-ताडनं बन्धः-संयमनं यातनं च-कदथेनमिति समाहारद्वन्द्वस्तच साधयन्ति गोल्मिकानां-गुप्तिपालकानां तथा धनधान्यगवेलकांश्च साधयन्ति तस्कराणामिति प्रतीतं, किन्तु गावो-बलीवईसुरभयः एलका-उरभ्राः, तथा ग्रामनगरपत्तनानि साधयन्ति
॥३७॥
-
For Personal & Private Use Only
V
Jain Educationa l
anelibrary.org