________________
-लज्जारहितं लोकगर्हणीयं प्रतीतं, 'वधवन्धपरिक्लेशबहुलं' तत्र वधो-यष्ट्यादिताडनं बन्धः-संयमनं परिक्लेशःउपतापस्ते बहुला:-प्रचुरा यत्र तत्तथा, भवन्ति चैतेऽसत्यवादिनामिति, जरामरणदुःखशोकेनेमं जरादीनां मूलमित्यर्थः, अशुद्धपरिणामेन संश्लिष्टं-सक्लेशवद्यत्तत्तथा, भणन्ति, के ?-अलीको योऽभिसन्धिः-अभिप्रा-|| यस्तत्र निविष्टा अलीकाभिसन्धिनिविष्टाः असद्गुणोदीरकाश्चेति व्यक्तं सद्गुणनाशकाच-तदपलापका इत्यर्थः, तथा हिंसया भूतोपघातो यत्रास्ति तद्धिंसाभूतोपघातिकं वचनं भणन्तीति योगः, अलीकसम्प्रयुक्ताःसम्प्रयुक्तालीकाः, कथम्भूतं वचनं ?-सावा-गर्हितकर्मयुक्तं अकुशलं जीवानामकुशलकारित्वात् अकुशलनरप्रयुक्तत्वाद्वा, अत एव साधुगर्हणीयं अधर्मजननं भणन्तीति पदवयं प्रतीतं, कथम्भूता इत्याह ?-अनधिगतपुण्यपापाः-अवेदितपुण्यपापकर्महेतव इत्यर्थः, तदधिगमे हि नालीकवादे प्रवृत्तिः सम्भवति, पुनश्च अज्ञानोत्तरकालं अधिकरणविषया या क्रिया-व्यापारस्तत्प्रवर्तकाः, तत्राधिकरणक्रिया द्विविधा-निर्वर्तना. धिकरणक्रिया संयोजनाधिकरणक्रिया च, तत्राद्या खड्डादीनां तन्मुष्ट्यादीनां च निर्वर्तनलक्षणा, द्वितीया तु तेषामेव सिद्धानां संयोजनलक्षणेति, अथवा दुर्गती यकाभिरधिक्रियते प्राणिनः ताः सर्वा अधिकरणक्रिया इति, बहुविधमनर्थहेतुत्वात् अपमई-उपमईनं आत्मनः परस्य च कुर्वन्ति, एवमेव अबुद्धिकं जल्प-| न्तो-भाषमाणाः, एतदेवाह-महिषान् शूकरांश्च प्रतीतान् साधयन्ति-प्रतिपादयन्ति घातकानां-तद्धिंसकानां, शशप्रशयरोहितांश्च साधयन्ति वागुरिणां, शशादय आटव्याः चतुष्पदविशेषाः, वागुरा-मृगबन्धनं
प्र.व्या.७
Jain Education
a
l
For Personal & Private Use Only
nelibrary.org