SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ मिति, तथा अपरे केचन अधर्मतः-अधर्ममङ्गीकृत्य राजदुष्टं-नृपविरुद्ध अभिमरोऽयमित्यादिकं अभ्यायाख्यान-परस्याभिमुखं दूषणवचनं भणन्ति-ब्रुवते अलीक-असत्यं, अभ्याख्यानमेव दर्शयितुमाह-'चोर' इति भणन्तीति प्रकृतं, के प्रतीत्याह-अचौर्यं कुर्वन्तं, चौरतामकुर्वाणमित्यर्थः, तथा डामरिको-विग्रहका-|| रीति अपिचेति समुच्चये भणन्तीति प्रकृतमेवेति, एक्मेव-चौरादिकं प्रयोजनं विनैव, कथम्भूतं पुरुषं प्रती-|| त्याह-उदासीनं-डामरादीनामकारणं तथा दुःशील इति च हेतोः परदारान् गच्छतीत्येवमभ्याख्यानेन मलिनयन्ति-पांसयन्ति शीलकलितं-सुशीलतया परदारविरतं तथा अयमपि न केवलः स एव गुरुतल्पक इतिदुर्विनीतः, अन्ये-केचन मृषावादिन एव निष्प्रयोजनं भणन्ति उपनन्तः-विध्वंसयन्तः तद्वृतिकीर्त्यादिकमिति गम्यते, तथा मित्रकलत्राणि सेवते-सुहृदारान् भजते, अयमपि न केवलमसौ लुसधर्मो-विगतधर्म इति । 'इमोवि'त्ति अयमपि, विश्रम्भघातकः पापकर्मकारीति च व्यक्तं, अकर्मकारी-वभूमिकानुचितकर्मकारी अगम्यगामी-भगिन्याद्यभिगन्ता अयं दुरात्मा-दुष्टात्मा 'बहुएसु य पावगेसुत्ति बहुभिश्च पातकर्युक्त इल जल्पन्ति मत्सरिण इति व्यक्तं, भद्रके वा-निर्दोषे तेषां वाऽलीकवादिनां विनयादिगुणयुक्ते पुरुषे वाशब्दादभद्रके वा एवं जल्पन्तीति प्रक्रमः, किम्भूतास्ते इत्याह-गुणः-उपकारः कीर्तिः-प्रसिद्धिः लेहः-श्री परलोको-जन्मान्तरं एतेषु निष्पिपासा-निराकासा येते तथा एवं-उक्तक्रमेण एतेऽलीकवचनदक्षाः परदोषोत्पादनप्रसक्ताः वेष्टयन्तीति पदत्रयं व्यक्तं, अक्षितिकबीजेन-अक्षयेण दुःखहेतुनेत्यर्थः, आत्मानं खं कर्म " Jain Education a l For Personal & Private Use Only K anelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy