________________
*
२-ॐॐॐॐॐ
रूपमित्यभ्युपगमात् , तथा 'अणुवलेवउ'त्ति अनुपलेपकः कर्मबन्धनरहितः, आह च-“यस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् , संसरति बध्यते मुच्यते च नानाश्रया प्रकृति"रिति, असञ्चैतत् , मुक्तामुक्तयोरेवमविशेषप्रसङ्गात्, पाठान्तरं-'अन्नो अलेवत्ति तत्र अन्यश्च-अपरो लेपतः कर्मबन्धनादिति, एतदप्यसत्, कथंचिदिति शब्दानुपादानात् , 'इत्यपिच' इतिः-उपप्रदर्शने अपिचेति अलीकवादान्तरसमुच्चयार्थः, तथा एवं-वक्ष्यमाणप्रकारेण आहंसुत्ति ब्रुवते स्म असदभावं-असन्तमर्थ यदुत यदेव-सामान्यतःसर्वमित्यर्थः इह-अस्मिन् किश्चिद्-अविवक्षितविशेष जीवलोके-मर्त्यलोके दृश्यते सुकृतं वा आस्तिकमतेन सुकृतफलं सुखमित्यर्थः दुष्कृतं वा दुष्कृतफलं दुःखमित्यर्थः, एतत् 'जइच्छाए वत्ति यदृच्छया वा खभावेन चापि दैवतप्रभावतो वापि-विधिसामर्थ्यतो वापि भवति, न पुरुषकारः कर्म वा हिताहितनिमित्तमिति भावः, तत्र अनभिसन्धिपूर्विकार्थप्राप्तिर्यदृच्छा, पठ्यते च-"अतर्कितोपस्थितमेव सर्व, चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः॥१॥" तथा "सत्यं पिशाचाः स्म वने वसामो, भेरी कराग्रैरपि न स्पृशामः । यदृच्छया सिद्ध्यति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति ॥१॥" इति, स्वभावः पुनर्वस्तुतः खत एव तथापरिणतिभावः, उक्तं च-"कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः? ॥१॥” इति, दैवं तु विधिरिति लौकिकी भाषा, तत्रोक्तं-"प्राप्तव्यमर्थ लभते मनुष्यः, किं कारणं ? दैवमलवनीयम् । तस्मान्न शोचामि
dain Educati
o
nal
For Personal & Private Use Only
W
anelibrary.org