SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ द्वादिनो वदन्तीति प्रकृतं, भणंति चेश्वरवादिनः-बुद्धिमत्कारणपूर्वकं जगत् संस्थानविशेषयुक्तत्वाद् घटा-|| दिवदिति, कुदर्शनता चास्य वल्मीकबुद्धदादिभिर्हेतोरनैकान्तिकत्वात्, कुलालादितुल्यस्य बुद्धिमत्कार-14 णस्य साधनेन चेष्टविघातकारित्वादिति, तथा एवं यथेश्वरकृतं तथा विष्णुमयं-विष्ण्वात्मकं कृत्लमेव जग-2 दिति केचिद्वदन्तीति प्रकृतं, भणंति च एतन्मतावलम्बिनो-"जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके । ज्वालामालाकुले विष्णुः, सर्व विष्णुमयं जगत् ॥ १॥ अहं च पृथिवी पार्थ!, वाय्वग्निजलमप्यहम् । वनस्पनातिगतश्चाहं, सर्वभूतगतोऽप्यहम् ॥२॥” तथा “सो किल जलयसमुत्थेणुदएणेगन्नवंमि लोगम्मि । वीतीपरंपरेणं घोलंतो उदयमज्झम्मि ॥१॥स किल-मार्कण्डर्षिः, “पेच्छइ सो तसथावरपणट्ठसुरनरतिरिक्खजोणीयं । एगन्नवं जगमिणं महभृयविवजियं गुहिरं ॥२॥ एवंविहे जगंमी पेच्छइ नग्गोहपायवं सहसा । मंदरगिरि व तुझं महासमुदं व विच्छिन्नं ॥३॥ खंधम्मि तस्स सयणं अच्छइ तहि वालओ मणभिरामो । [विष्णुरित्यर्थः] संविद्धो सुद्धहिअओ मिउकोमलकुंचियसुकेसो॥४॥ हत्थो पसारिओ से महरिसिणो एह तत्थ भजिओ य । खधं इमं विलग्गसु मा मरिहिसि उदयवुड्डीए ॥५॥ तेण य घेत्तुं हत्थे उ मीलिओ सो रिसीद तओ तस्स । पेच्छइ उदरंमि जयं ससेलवणकाणणं सव्वं ॥६॥" ति, पुनः सृष्टिकाले विष्णुना सृष्टं, कुदर्शनता चास्य प्रतीतिबाधितत्वात्, तथा एवं-वक्ष्यमाणेन न्यायेन एके-केचनात्माद्वैतवाद्यादयो वदन्ति मृषा |-अलीकं यदुत एक आत्मा, तदुक्तम्-"एक एव हि भूतात्मा, भूते २ व्यवस्थितः । एकधा बहुधा चैव, Jain Education Melinal For Personal & Private Use Only M ainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy