SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ असत्यतायामपि स्वरूपस्य वस्तुनोऽनतिरेकात् कुसुमादिकरणमकारणं तरूणां स्यात् , तथा मृत्युः-परलोकप्रयाणलक्षणोऽसावपि नास्ति, जीवाभावेन परलोकगमनाभावात्, अथवा कालक्रमेण विवक्षितायुष्ककमणः सामस्त्यनिजेरावसरे मृत्युः, तदभावश्चायुष एवाभावात्, तथा अहंदादयो 'नस्थित्ति न सन्ति प्रमा-18 णाविषयत्वात् 'नेवत्थि केई रिसउत्ति नैव सन्ति केचिदपि ऋषयो-गौतमादिमुनयः प्रमाणाविषयत्वादेव, वर्तमानकाले वा ऋषित्वस्यापि सर्वविरत्याद्यनुष्ठानस्यासत्त्वात, सतोऽपि वा निष्फलत्वादिति, अत्र च शिप्यादिप्रवाहानुमेयत्वादहंदादिसत्त्वस्यानन्तरोक्तवाद वादिनामसत्यता, ऋषित्वस्यापि सर्वज्ञवचनप्रामाण्येन सर्वदा भावादित्येवमाज्ञाग्राह्यार्थापलापिनां सर्वत्रासत्यवादिता भावनीयेति, तथा धर्माधर्मफलमपि नास्ति किञ्चिद्वहकं वा स्तोकं वा, धर्माधर्मयोरदृष्टत्वेन नास्तित्वात् , 'नथि फलं सुकए'त्यादि यदुक्तं प्राक्तत्सामान्यजीवापेक्षया यच 'धम्माधम्म त्यादि तद् दृश्यापेक्षयेति न पुनरुक्ततेति, 'तम्ह'त्ति यस्मादेवं तस्मादेवं-उक्तप्रकारं वस्तु विज्ञाय 'जहा सुबहुइंदियाणुकूलेसुत्ति यथा-यत्प्रकाराः सुबहु-अत्यर्थमिन्द्रियानुकूला येते तथा तेषु सर्वविषयेषु वर्तितव्यं, नास्ति काचित् क्रिया वा-अनिन्द्यक्रिया अक्रिया वा-पापक्रिया पापेतर[क्रिययोरास्तिककल्पितत्वेनापारमार्थिकत्वात, भणंति च-"पिब खाद च चारुलोचने!, यदतीतं वरगात्रि! तन्न ते । नहि भीरु! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥१॥” 'एव'मित्यादि निगमनं । तथा इदमपि द्वितीयं नास्तिकदर्शनापेक्षया कुदर्शनं-कुमतमसद्भाववादिनः प्रज्ञापयन्ति मूढा-व्यामोहवन्तः, कुदर्शनता Jain Education a l For Personal & Private Use Only R Dainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy