SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ १अधर्म द्वारे मृषावादिनः प्रश्नव्याक-स तव्यतिरेकात् तत्स्वरूपवत्, ततो निर्हेतुका नारकादिविचित्रता स्यात्, न च निर्हेतुकं किमपि भवत्यतिर० श्रीअ- प्रसङ्गादिति, तथा न नैरयिकतिर्यग्मनुजानां योनिः-उत्पत्तिस्थानं पुण्यपापकर्मफलभूताऽस्तीति प्रकृतं, न भयदेव० देवलोको वाऽस्ति पुण्यकर्मफलभूतः, नैवास्ति सिद्धिगमनं, सिद्धेः सिद्धस्य चाभावात्, अम्बापितरावपि न वृत्तिः स्तः, उत्पत्तिमात्रनिबन्धनत्वान्मातापितृत्वस्य, न चोत्पत्तिमात्रनिबन्धनस्य मातापितृतया विशेषो युक्तः, यतः कुतोऽपि किश्चिदुत्पद्यत एव, यथा सचेतनात् सचेतनं यूकामत्कूणादि अचेतनं मूत्रपुरीषादि अचेत॥३२॥ नाच सचेतनं यथा काष्ठाद् घुणकीटादि अचेतनं चूर्णादि, तस्मात् जन्यजनकभावमात्रमर्थानामस्ति नान्यो मातापितृपुत्रादिविशेष इति, तद्भावात्तभोगविनाशापमानादिषु न दोष इति भावो, मृषावादिता चैषां वस्त्वन्तरस्यापि च जनकत्वे समानेऽपि तयोरत्यन्तहिततया विशेषवत्वेन सत्त्वात् , हितत्वं च तयोः प्रतीतमेव, आह च-"दुष्पतिकारा"वित्यादि, नाप्यस्ति पुरुषकारः, तं विनैव नियतितः सर्वप्रयोजनानां सिद्धेः, उच्यते च-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥” मृषावादिता चैवमेषां-सकललोकप्रतीतपुरुषकारापलापेन प्रमाणातीतनियतिमताभ्युपगमादिति, तथा प्रत्याख्यानमपि नास्ति धर्मसाधनतया, ध मस्यैवाभावादिति, अस्य च सर्वज्ञवचनप्रामाण्येनास्तित्वात् तद्वादिनामसत्यता, तथा नैवास्ति कालमृत्युः, * तत्र कालो नास्ति अनुपलम्भात् , यच्च वनस्पतिकुसुमादि काललक्षणमाचक्षते तत्तेषामेव स्वरूपमिति मन्तव्यं, ॥३२॥ Jain Education I I For Personal & Private Use Only ainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy