________________
IIतथा 'वाउजीवोत्ति एवमाहंसुत्ति वातः-उच्छ्वासादिलक्षणो जीव इत्याहुरेके, सभावाभावयोर्जीवनमरण
व्यपदेशात् नान्यः परलोकयाय्यात्माऽस्तीति, अलीकवादिता चैषां वायोर्जडत्वेन चैतन्यरूपजीवत्वायोगात् , तथा शरीरं सादि उत्पन्नत्वात् सनिधनं क्षयदर्शनात् 'इह भवे एगे भवेत्ति इह भव एव-प्रत्यक्षजन्मैव एको भवः-एकं जन्म नान्यः परलोकोऽस्ति प्रमाणाविषयत्वात् तस्य-शरीरस्य विविधैः प्रकारैः प्रकष्टो नाशो विप्रणाशस्तस्मिन् सति सर्वनाश इति-नात्मा शुभाशुभरूपं वा कर्म विशिष्टमवशिष्यते इति, एतत् एवंउक्तप्रकारं 'जंपति' जल्पन्ति, के?-मृषावादिनः, मृषावादिता चैषां जातिस्मरणादिना जीवपरलोकसिद्धेः, तथा किमन्यद्वदन्तीत्याह-यस्मात् शरीरं सादिकमित्यादि तस्माद्दानव्रतपौषधानां-वितरणनियमपर्वोपवासानां तथा तपः-अनशनादि संयमः-पृथिव्यादिरक्षा ब्रह्मचर्य प्रतीतं एतान्येव कल्याणं कल्याणहेतुत्वा-|| त्तदादिर्येषां ज्ञानश्रद्धादीनां तानि तथा तेषां नास्ति फलं-कर्मक्षयसुगतिगमनादिकं, नापि चास्ति प्राणवधालीकवचनमशुभफलसाधनतयेति गम्यं, न चैव-नैव च चौर्यकरणं परदारसेवनं चास्त्यशुभफलसाधनतयैव, सह परिग्रहेण यद्वर्त्तते तत्सपरिग्रहं तच तत्पापकर्मकरणं च-पातकक्रियासेवनं तदपि नास्ति किञ्चित् , क्रोधमानाद्यासेवनरूपं नरकादिका च जगतो विचित्रता खभावादेव न कर्मजनिता, तदुक्तं-'कण्टकस्य प्रतीक्ष्णत्वं, मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां, खभावेन भवन्ति ही ॥१॥" ति, मृषावादिता चैवमेतेषांस्वभावो हि जीवाद्यर्थान्तरभूतस्तदा प्राणातिपातादिजनितं कम्मैवासौ अथानान्तरभूतस्ततो जीव एवासौ
COMSACSAMAROO
Jain Education
a
l
For Personal & Private Use Only
Nuwainelibrary.org