SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ - -- प्रश्नव्याक- तीयमानत्वात् , तदितरस्य तु सर्वथा अप्रतीयमानत्वाद्, यत्तु चैतन्यं भूतेषूपलभ्यते तद्भूतेषु एव कायाकारप-४१ अधर्मर० श्रीअ-रिणतेष्वभिव्यज्यते मद्याङ्गेषु समुदितेषु मदशक्तिवत्, तथा न भूतेभ्योऽतिरिक्तं चैतन्यं कार्यत्वान्मृदो घट । द्वारे भयदेव. वदिति, ततो भूतानामेव चैतन्याभिव्यक्तिर्जलस्य बुद्वदाभिव्यक्तिवदिति, अलीकवादिता चैषामात्मनः मृषावावृत्तिः सत्त्वात् , सत्त्वं च प्रमाणोपपत्तेः, प्रमाणं च सर्वजनप्रतीतं जातिस्मरणाद्यन्यथाऽनुपपत्तिलक्षणमनेकधा शा- दिनः स्त्रान्तरप्रसिद्धमिति, न च भूतधर्मश्चैतन्यं, तदभावेऽपि तस्य भावाद्विवक्षितभूताभावेऽपि प्रेताद्यवस्थायां ॥३१॥ सर्वचैतन्यसदभावाचेति, 'पंच य खंधे भणंति केईति पंच च स्कन्धान् रूपवेदनाविज्ञानसंज्ञासंस्काराख्यान् भांति केचिदिति-बौद्धाः, तत्र रूपस्कन्धः-पृथिवीधात्वादयो रूपादयश्च वेदनास्कन्धः पुनः-सुखा दुःखा सुख-| दाखेति त्रिविधवेदनाखभावः विज्ञानस्कन्धस्तु-रूपादिविज्ञानलक्षणः संज्ञास्कन्धश्च-संज्ञानिमित्तोदग्राहणात्मकः प्रत्ययः संस्कारस्कन्धः पुन:-पुण्यापुण्यादिधर्मसमुदाय इति, न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षादिभिरवसीयत इति, तथा 'मणं च मणजीविया वयंति'त्ति न केवलं पञ्चैव स्कन्धान् मनश्चमनस्कारो-रूपादिज्ञानलक्षणानामुपादानकारणभूतो यमाश्रित्य परलोकोऽभ्युपगम्यते बौद्धः, मन एव जीवो येषां मतेन ते मनोजीवास्त एव मनोजीविकाः, अलीकवादिता चैषां सर्वथाऽननुगामिनि मनोमात्ररूपे जीवे , कल्पितेऽपि परलोकासिद्धेः तदसिद्धिश्चावस्थितस्यैकस्यात्मनोऽसत्त्वान्मनोमात्रात्मनःक्षणान्तरस्यैवोत्पादहै नात् अकृताभ्यागमादिदोषप्रसङ्गात्, कथश्चिदनुगामिनि तु मनसि जीवत्वाभ्युपगमः सम्यक्पक्ष एवेति, - -- ॥ - - Join Education Minelibrary.org For Personal & Private Use Only -
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy