SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ भर्जन-भ्राष्ट्रपचनं गालनं-छाणनं आमोटनं-ईषद्भञ्जनं शटनं-खत एव विशरणं स्फुटनं-खत एव द्विधाभावगमनं भञ्जन-आमईनं छेदन-प्रतीतं तक्षणं-काष्ठादेरिव वास्यादिना विलुश्चनं-लोमाद्यपनयनं पत्रज्झोडनं-तरुपान्तपल्लवफलादिपातनं अग्निदहनं प्रतीतं, एतान्यादिर्येषां तानि दुःखान्येकेन्द्रियाणां भवन्तीति गम्यं, तथा एकेन्द्रियाधिकारं निगमयन्नाह-एवम्-उक्तक्रमेण ते एकेन्द्रियाः भवपरम्परासु यद दःखं तत्समनुबई-अविच्छिन्नं येषां ते तथा अटन्ति संसारे एव 'बीहणकरें'त्ति भयङ्करः तत्र जीवाः प्राणातिपातनिरता अनन्तं कालं यावदिति । अथ प्राणातिपातकारिणो नरकादुद्धृता मनुष्यगतिगता यादृशा भवन्ति तथोच्यते-'जेऽवियेत्यादि येऽपिचेह मर्त्यलोके मानुषत्वमागताः-प्राप्ताः कथञ्चित् कृच्छ्रादित्यर्थो ४ नरकादुद्धृताः अधन्यास्तेऽपिच दृश्यन्ते प्रायशः-प्रायेण विकृतविकलरूपाः, प्रायशोग्रहणेन तीर्थकरादिभिर्व्यभिचारः परिहृतः, विकृतविकलरूपत्वमेव प्रपञ्चयन्नाह-कुब्जा:-वक्रजङ्घाः वटभाश्च-वक्रोपरिकाया वामनाश्च-कालानौचित्येनातिहखदेहा बधिराः प्रतीताः काणा:-दीपकाणाः फरला इत्यथैः, कुण्टाश्च-विकृतहस्ताः पङ्गुलाः-गमनासमर्थजङ्घाः विकलाश्च-अपरिपूर्णगात्राःमूकाश्च-वचनासमर्थाः पङ्गुलाः अविय जलमूर्यत्ति पाठान्तरं तत्र अपिचेति समुच्चये जलमूका:-जलप्रविष्टस्येव 'वुडबुड' इत्येवंरूपो ध्वनिर्येषां मन्मनाश्च-येषां जल्पतां स्खलति वाणी 'अंधिल्लग'त्ति अन्धाः एक चक्षुर्विनिहतं येषां ते एकचक्षुर्विनिहताः 'सचिल्लयत्ति सर्वापचक्षुषः पाठान्तरेण 'सपिसल्लयत्ति तत्र सह पिसल्लयेन-पिशाचेन वर्तन्त इति सपिसल्लयाः व्या प्र.व्या.५॥ Jain Education For Personal & Private Use Only Visinelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy