SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Jain Education. 1 तथा भ्रमरमशकमक्षिकादिषु चेति सप्तम्याः षष्ठ्यर्थत्वात् भमरादीनामिति व्याख्येयं चतुरिन्द्रियाणामिति च संबन्धनीयं अथवा चतुरिन्द्रियाणां भ्रमरादिकेषु जातिकुल कोटीशतसहस्रेष्वेवं घटनीयमिति, जातौ चतु रिन्द्रियजातौ यानि कुलकोटीशतसहस्राणि तानि तथा तेषु तथा 'नवसु'त्ति 'तहिं २ चेव' त्ति तत्रैव २ चतुरिन्द्रियजातावित्यर्थः, जननमरणान्यनुभवन्तः कालं सङ्ख्यातकं - सङ्ख्यातवर्षसहस्रलक्षणं भ्रमन्ति, किम्भूता: :नारकसमान तीव्र दु:खाः स्पर्शनरसनप्राणचक्षुः सहिताः इन्द्रियचतुष्टयोपेता इत्यर्थः, 'तथैवेति यथैव चतुरि न्द्रियेषु तथैव त्रीन्द्रियेषु जननान्यनुभवन्तो भ्रमन्तीति प्रक्रमः । एतदेव प्रपञ्चयन्नाह - कुंथुपिपीलिकाअवधिकादिकेषु च जातिकुल कोटिशतसहस्रेष्वित्यादीन्द्रियगमान्तं चतुरिन्द्रियगमवन्नेयं, नवरं 'गंडूलय'त्ति अलसाः 'चंदणग'त्ति अक्षाः तथा 'पत्ता एगिंदियत्तणंपिय'त्ति न केवलं पञ्चेन्द्रियादित्व - मेव प्राप्ताः एकेन्द्रियत्वमपि च प्राप्ता दुःखसमुदयं प्राप्नुवन्तीति योगः, किम्भूतमेकेन्द्रियत्वमित्याह - पृथ्वी| जलज्वलन मारुतवनस्पतिसम्बन्धि यत् एकेन्द्रियत्वं तत्पृथिव्याद्येवोच्यते पुनः किम्भूतं तत् ? - सूक्ष्मं बादरं च तत्तत्कर्मोदयसम्पाद्यं च तथा पर्याप्तमपर्याप्तं च तत्तत्कर्मोत्पाद्यमेव तथा प्रत्येकशरीरनामकर्मसम्पाद्यं प्रत्येकशरीरनामैवोच्यते साधारणशरीरनामकर्म्मसम्पाद्यं च साधारणं पर्याप्तादिपदानां च कर्म्मधारयः, चकारः समुच्चये, एवंविधं चैकेन्द्रियत्वं प्राप्ताः कियन्तं कालं भ्रमन्तीति भेदेनाह - 'पत्तेयेत्यादि, 'तत्थवि'त्ति तत्रापि एकेन्द्रियत्वे प्रत्येकशरीरे जीवितं - प्राणधारणं येषां ते प्रत्येकशरीरजीवितास्तेषु - पृथिव्यादिषु चकार For Personal & Private Use Only [nelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy