________________
तत्तथा, ततः पदत्रयस्य द्वन्द्वः, 'इमेहिन्ति एभिर्वक्ष्यमाणैर्विविधैरायुधैः परस्परं वेदनामुदीरयन्तीति योगः ई WI'किं तेत्ति तद्यथा मुद्गरः-अयोधनः मुसुण्ढिः-ग्रहरणविशेषः 'करकर्य'ति क्रकचं-करपत्रं शक्ति:-त्रिशलं
हलं-लागलं गदा-लकुटविशेषः मुशलं चक्रं कुन्तं च प्रतीतं तोमरो-बाणविशेषः शूलं प्रतीतं 'लउड'त्ति लकटं भिंडिमालः-प्रहरणविशेषः सद्धलो-भल्लः पटिसः-प्रहरणविशेषः 'चर्मेष्ट' चर्मवेष्टितपाषाणविशेषो द्रुघणोमुद्गरविशेषः मौष्टिको-मुष्टिप्रमाणः पाषाण एव असिखेटकं-असिना सह फलकं खड्गः-केवल एव चापंधनुः नाराचः-आयसो बाणः कणको-बाणविशेषः कल्पनी-कर्तिकाविशेषः वासी-काष्ठतक्षकोपकरणविशेषः । परशुः-कुठारविशेषः तत एतेषां द्वन्द्वः ततस्ते च ते टकतीक्ष्णा अग्रतीक्ष्णा निर्मलाश्चेति कर्मधारयः, ततस्तैरिति व्याख्येयं, तृतीयाबहुवचनलोपदर्शनादिति, अन्यैश्चेवमादिभिः अशुभैर्वक्रियः प्रहरणशतैरभिघ्नन्तः अनुबद्धतीववैरा-अविच्छिन्नोत्कटवैरभावाः परस्परं-अन्योऽन्यं वेदनामुदीरयन्ति, नारका एव तिसृभ्यः नरकपृथ्वीभ्यः, परतो नरकपालानांगमनाभावात्, 'तत्थे ति तत्र च परस्पराभिहननेन वेदनोदीरणेन मुद्गरप्रहारचूर्णितो मुसुण्ढिभिः सम्भग्नो मधितश्च-विलोडितो देहो येषां ते तथा, तथा यत्रोपपीडनेन स्फुरन्तश्च कल्पिताश्च-छिन्ना यन्त्रोपपीडनस्फुरत्कल्पिताः 'केइत्य'ति केचिदत्र-नरके सचर्मकाः-चर्मणा सह विकृत्ता-उत्लसाः पृथकृतचर्माण इत्यर्थः, तथा निर्मूलोल्लूनकर्णीष्टनासिकाश्छिन्नहस्तपादाः असिक्रकचतीक्ष्णकुन्तपरशूनां । प्रहारैः स्फाटिता-विदारिता येते तथा, वास्या संतक्षितान्यङ्गोपाङ्गानि येषां ते तथा, ततः पदवयस्य कर्म
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org