________________
प्रश्नव्याकर०श्रीअभयदेव० वृत्तिः
॥२०॥
त्यर्थः, 'उच्छुभ'त्ति आधिक्येन क्षिप-प्रवेशयेत्यर्थः, आकृष-अभिमुखमाकर्षणं कुरु विकृष-विपरीतं विक- अधर्मषणं कुरु, किं न जल्पसि?, वाचनान्तरे तु किं न जानासि ?, स्मर हे पाप ! कर्माणि दुष्कृतानि, एवं-अमुना द्वारे प्रकारेण यद्वदनं-नरकपालप्रतिपादनं तेन महाप्रगल्भ:-अतिस्फारो यः स तथा, 'पडिसुयोति प्रतिश्रुत्पति- प्राणवध शब्दकस्तद्रूपो यः शब्दस्तेन सङ्कुलः त्रासकः वाचनान्तरे तु 'बीहणओ तासणओ पइभओ अइभ'त्ति कारकाः एकार्थाः, सदा-सर्वदा, केषां त्रासक इत्याह-कदर्थ्यमानानां-यात्यमानानां निरयगोचराणां-नरकवर्तिनां
प्रेत्यतदमहानगरडज्झमाणसरिसोत्ति दह्यमानमहानगरघोषसदृशो निर्घोषो-महाध्वनिः श्रूयतेऽनिष्टः 'तहि-४ वस्थाश्च यति तत्र नरके, केषां सम्बन्धीत्याह-'नेरइयाणं' किंभूतानामित्याह-यात्यमानानां-कदर्थ्यमानानां यातनाभिः- कदर्थनाप्रकारैः, 'किं तेत्ति कास्ताः?-असिवन-खड्गाकारपत्रवनं, दर्भवनं प्रतीतं, दर्भपत्राणि छेदकानि तदग्राणि च भेदकानि भवन्तीति तद्यातनाहेतुत्वेनोक्तं, यंत्रप्रस्तरा-घरहादिपाषाणा यंत्रमुक्तपाषाणा वा यत्राणि च पाषाणाश्चेति वा यन्त्रपाषाणाः सूचीतलं-ऊर्द्धमुखशूचीकं भूतलं क्षारवाप्य:-क्षारद्रव्यभृतवाप्यः 'कलकलंत'त्ति कलकलायमानं यत् त्रपुकादि तद्भुता वैतरण्यभिधाना या नदी सा कलकलायमानवैतरणी कदम्बपुष्पाकारा वालुका कदम्बवालुका ज्वलिता या गुहा-कन्दरा सा तथा ततो द्वन्द्वः ततोऽसिवनादिषु यन्निरोधनं-प्रक्षेपस्तत्तथा, उष्णोष्णे-अत्युष्णे 'कण्टइल्लेत्ति कण्टकवति दुर्गमे-कृच्छ्रगतिके ॥२० रथे-शकटे यद्योजनं गवामिव तत्तथा ततो लोहपथे-लोहमयमार्गे यद गमनं-खयमेवावाहनं च-अपरैर्गवामिव
Jain Educatives
For Personal & Private Use Only
ainelibrary.org