SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक र० श्रीअभयदेव० वृत्तिः ॥ १९ ॥ 'एवंदारुणोति एवंप्रकारो दारुणो- रौद्रो निर्दयश्च निर्घृणश्च मा देहि मे मम महारान् 'उसासेतं मुहुत्तगं मे देहित्ति उच्चासमुच्छ्रसनमेनं-अधिकृतं एकं वा मुहूर्त्तकं यावत् मे - मह्यं देहीति प्रसादं कुरुत मा रुष्यत विश्रमामि विश्रामं करोमि 'गेविजं' ति ग्रैवेयकं ग्रीवाबन्धनं मुञ्च मे मम यतो 'मरामि'त्ति म्रिये तथा गाढं - अत्यर्थ 'तण्हाइउ'ति तृष्णार्दितः पिपासितोऽहं 'देह'त्ति दत्त पानीयं - जलमिति नारकेणोक्ते सति नरकपाला यद् भणन्ति तदाह - 'हंता' इति, यदि त्वं पिपासितस्ततो हंता हंदीति च वाऽऽमन्त्रणे पिय इदं जलं विमलं शीतलं, इतिः एतच्छब्दार्थः, भणन्तीति गम्यते, गृहीत्वा च निरयपालास्तसं त्रपुकं 'से' तस्य ददति | कलशेनाञ्जलिषु, दृष्ट्वा च तज्जलं प्रवेपिताङ्गोपाङ्गाः - कम्पितसकलगात्रा : अश्रुभिः प्रगलद्भिः प्रलुते-प्रहुते अक्षिणी येषां ते अश्रुप्रगलत्मष्ताक्षा:, 'छिन्ना तन्हाइयम्ह' इति भिन्नक्रमः तस्य चैवं सम्बन्धः - छिन्ना तृष्णाऽस्माकमित्येवंरूपाणि करुणानि वचनानीति गम्यते जल्पन्ति विपलायन्ते वेति योगः, विप्रेक्षमाणा 'दिसो दिसं'ति एकस्या दिशः सकाशादन्यां दिशं, अत्राणाः - अनर्थप्रतिघातवर्जिता अशरणाः - अर्थकारकविरहिता अनाथाः - योगक्षेमकारिविरहिता अबान्धवाः स्वजनरहिता बन्धुविप्रहीणाः - विद्यमानबन्धवविप्रमुक्ताः, कथ| ञ्चिदेकार्थिकान्यप्येतानि पदानि न दोषाय, अनाथताप्रकर्षप्रतिपादकत्वादिति, विपलायन्ते विनश्यन्ति च, कथं ? - मृगा इव वेगेन भयोद्विग्ना इति, गृहीत्वा च बलात् हठादित्यर्थः, नारकानिति गम्यते, तेषां च विपलायमानानां निरनुकम्पा यमकायिका इति योगः, मुखं विद्याट्य- विदार्य लोहदण्डै: 'कलकलं'ति कल - x ॥ १९ ॥ Jain Education nal For Personal & Private Use Only १ अधर्म द्वारे प्राणवध कारकाः प्रेत्यतद वस्थाश्च सू० ४ ainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy