________________
मानप्राणपर्यासि भाषामनः पर्याप्तिं चोपगताः - प्राप्ता इन्द्रियैः पञ्चभिर्वेदयन्ति - अनुभवन्ति, कं ? - दुःखं, महाकुम्भीपचनादीनि दुःखकारणनीति योगः, कया कलितानि ! - अशुभया वेदनया दुःखरूपयेत्यर्थः किंभूतयेत्याह- 'उज्जले 'त्यादि तत्रोज्ज्वला - विपक्षलेशेनाप्यकलङ्किता बला - बलवती निवर्त्तयितुमशक्या विपुलासर्वशरीरावयवव्यापिनी पाठान्तरेण तिउलत्ति-त्रीन् - मनोवाक्कायांस्तुलयति-अभिभवति या सा त्रितुला उत्कटा - प्रकर्षपर्यन्तवर्त्तिनी खरं - अमृदुशिलावत् यद्रव्यं तत्सम्पातजनिता खरा परुषं - कर्कशं कूष्माण्डीदलमिव यद् द्रव्यं तत्सम्पातसम्भवा परुषा प्रचण्डा - शीघ्रं शरीरव्यापिका प्रचण्डपरिवर्त्तितत्वाद्वा प्रचण्डाघोरा-झगिति जीवितक्षयकारिणी औदारिकवतां, परिजीवितानपेक्षा वा ये ते घोरास्तत्प्रवर्त्तितत्वात् घोरा इति, 'बीहणग'त्ति भयोत्पादिका, किमुक्तं भवति ? - दारुणा, तत एतेषां कर्मधारयोऽतस्तया वेदयन्तीति प्रकृतं, 'किं ते'त्ति तद्यथा - कंदु: - लोही महाकुम्भी - महत्यूखा तयोः पचनं च भक्तस्येव 'पउलणं'ति पचनविशेपश्च पृथुकस्येव तवर्ग-तापिका तलनं च सुकुमारिकादेरिव भ्रष्ट्रे - अंबरीषे भर्जनं च - पाकविशेषकरणं चणकादेरिवेति द्वन्द्वोऽतस्तानि च लोहकटाहोत्वाधनानि च इक्षुरसस्येव 'कोह'त्ति-क्रीडा तेन बलिकरणं - चण्डि - कादेः पुरतो बस्तादेरिव उपहारविधानं, पाठान्तरे कोहा को किरिया दुर्गा तस्यै च, कोहाय वा प्राकाराय बलिकरणं तच कुट्टनं च- कुटिलत्वकरणं वैकल्यकरणं वा कुट्टेन वा चूर्णनं तानि च शाल्मल्या - वृक्षविशेषस्य तीक्ष्णाग्रा ये लोहकण्टका इव लोहकण्टकास्तेष्वभिसरणं च - आपेक्षिकमभिमुखागमनमपसरणं च निवर्त्तनं
Jain Education tettonal
For Personal & Private Use Only
Mainelibrary.org