SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ विश्रान्तिरहितासातवेदनां दीर्घकालं यावद्वहुभिर्दुःखैः शारीरमानसैर्या संकटा-सङ्कला सा दीर्घकालबहुदुःखसङ्कटा तां, नरकेषु तिर्यक्षु च या योनिरुत्पत्तिहेतुत्वात् सा नरकतिर्यग्योनिस्तां, ततश्च इतो-मनुष्यजन्मनः सकाशादायुःक्षये-मरणे सति च्युतास्सन्तः, 'तस्से त्यादि च सूत्रं कचिदेव दृश्यते, अशुभकर्मबहुला:-कलुकर्मप्रचुराः उपपद्यन्ते-जायते नरकेषु 'हुलिय'ति शीघ्रं महालयेषु-क्षेत्रस्थितिभ्यां महत्सु, कथंभूतेषु?-वज्रमयकुड्या रुन्दा-विस्तीर्णा निःसन्धयो-निर्विवरा द्वारविरहिता-अद्वारा निर्मादेवभूमितलाश्च-कर्कशभूमयः ये नरकास्ते तथा खरामर्शाः-कर्कशस्पर्शाः विषमा-निनोन्नता निरयगृहसम्बन्धिनो ये चारकाः-कुड्यकुटा नारको त्पत्तिस्थानभूता येषु नरकेषु ते तथा, ततः पदद्वयस्य कर्मधारयोऽतस्तेषु, तथा महोष्णाः-अत्युष्णाः सदाप्रतप्ताहै नित्यतप्ता दुर्गन्धा-अशुभगन्धा विश्रा-आमगन्धयः कुथिता इत्यर्थः, उद्विज्यते-उद्विग्नैर्भूयते येभ्यस्ते उद्वेगजन कास्ते च ते तथा तेषु, तथा बीभत्सदर्शनीयेषु-विरूपेषु नित्यं-सदा हिमपटलमिव-हिमवृन्दमिव शीतला ये ते तथा तेषु च, कालोऽवभासः-प्रभा येषां ते कालावभासास्तेषु च, भीमगम्भीराश्च ते अत एव लोमहर्षणाश्च-| सारोमहर्षकारिणो भीमगम्भीरलोमहर्षेणास्तेषु, निरभिरामेषु-अरमणीयेषु निष्प्रतीकारा-अचिकित्स्या ये व्याPाधयः- कुष्ठाद्याः ज्वराः-प्रतीताः रोगाश्च-सद्योघातिनो ज्वरशूलादयः तैः पीडिता ये ते तथा तेषु, इदं च। नारकधआध्यारोपानरकाणां विशेषणमुक्तं, अतीव-प्रकृष्टं नित्यं-शाश्वतमन्धकारं येषु ते तथा तिमिस्सेव-तमिस्रगुहेव येऽन्धकारप्रकर्षास्ते अतीवनित्यान्धकारतमिस्राः अथवा अतीव नित्यान्धकारेण तिमिस्रव च Jain Educati onal For Personal & Private Use Only Ww.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy