SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ * प्रश्नव्याक र० श्रीअभयदेव. वृत्तिः ॥१५३॥ GARCANEAR मोऽवयं भावीति, इतिशब्द उपदर्शने, येनैवं तेन वर्जयन्ति-परिहरन्ति पुष्पफलधान्यभोजनादिकं, के?. श्रमणसिंहाः-मुनिपुङ्गवाः, यदपि च ओदनादि तदपि न कल्पते-सन्निधीकर्तुं सुविहितानामिति सम्बन्धः, तत्र ओदन:-कूरः कुल्माषाः-माषा: ईषत्खिन्ना मुद्गादय इत्यन्ये गंजत्ति-भोज्यविशेषः तर्पणाः-सक्तवः 'मंधत्ति बदरादिचूर्णः 'भुजिय'त्ति धानाः 'पलल'त्ति तिलपुष्पपिष्टं सूपो-मुद्गादिविकारः शष्कुली-तिलपप्पटिका वेष्टिमाः प्रतीताः वरसरकाणि चूर्णकोशकानि च रूढिगम्यानि पिण्डो-गुडादिपिण्डः शिखरिणीगुडमिश्रं दधि 'वत्ति घनतीमनं मोदका-लडकाः क्षीरं दधि च व्यक्तं सर्पिः-घृतं नवनीतं-म्रक्षणं तैलं गुडं खण्डं च कण्ठ्यानि मच्छण्डिका-खण्डविशेषः मधुमद्यमांसानि प्रतीतानि खाद्यानि-अशोकवर्तयः व्यानानि-तक्रादीनि शालनकानि वा तेषां ये विधयः-प्रकाराः ते खाद्यकव्यञ्जनविधयस्तत एतेषां मोदकादीनां द्वन्द्वः तत एते आदिर्यस्य तत्तथा प्रणीतं-प्रापितं उपाश्रये-वसतौ परिग्रहे वा अरण्ये-अटव्यां न कल्पते-न सङ्गच्छते तदपि सन्निधीकर्तु-सश्चयीकर्तुं सुविहितानां-परिग्रहपरिवर्जनेन शोभनानुष्ठानानां सुसाधूनामित्यर्थः, आह च-'बिडमुन्भेइमं लोणं, तेल्लं सपि च फाणियं । ण ते संनिहिमिच्छंति, नायपुत्तवए रया ॥१॥” इति, [बिडमुद्भेदिमं लवणं तैलं सर्पिश्च फाणितं । न तानि सन्निधातुमिच्छन्ति ज्ञातपुत्रवचसि रताः॥१॥] यदपि चोद्दिष्टादिरूपमोदनादि न कल्पते तदपि च परिग्रहीतुमिति सम्बन्धः, उद्दिष्ट-यावदर्थिकान् पाखण्डिनः श्रमणान्-साधून उद्दिश्य दुर्भिक्षापगमादौ यद्भिक्षावितरणं तदौद्देशिक ५धर्मद्वारे | परिग्रहविरतो संवरपादपः भिक्षाअसन्निधिर्भावनाश्च सू०२९ CAR CISC ॥१५३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy