SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ मुद्दिष्टं, आह च – “उद्दिसिय साहुमाई ओमव्वयभिक्खवियरणं जं च "त्ति [ अवमव्यये साध्वादिकमुदिश्य यद्भिक्षावितरणं ] स्थापितं - प्रयोजने याचितं गृहस्थेन च तदर्थं स्थापितं यत्तत् स्थापितं, आह च"ओहासियखीराईठावणं ठवण साहुणढाए” [याचितानां क्षीरादीनां साधूनामर्थाय स्थापनं स्थापना ] रचितर्क- मोदक चूर्णादि साध्वाद्यर्थ प्रताप्य पुनर्मोदकादितया विरचितं, औदेशिक भेदोऽयं कर्माभिधान उक्तः, पर्यवजातं - पर्यवः - अवस्थान्तरं जातो यत्र तत्पर्यवजातं कूरादिकमुद्धरितं दध्यादिना विमिश्रितं करम्बादिकं पर्यायान्तरमापादितमित्यर्थः अयमप्यौदेशिक भेदः कृताभिधान उक्तः, प्रकीर्ण-विक्षिप्तं विच्छर्दितं - परिशादीत्यर्थः, अनेन च छर्द्दिताभिधान एषणादोष उक्तः, 'पाउकरण'त्ति प्रादुः क्रियते-अन्धकारापवरकादेः साध्वर्थे बहि: करणेन दीपमण्यादिधरणेन वा प्रकाश्यते यत्तत् प्रादुष्करणमशनादि, आह च - " णीयदुवारंधारे गवक्खकरणाइ पाउओ पाउ । करणं तु” [ नीचद्वारेऽन्धकारे गवाक्षकरणादि प्रादुष्करणं तु ] 'पामिचं'ति अपमित्यकं उद्यतकं उच्छिन्नमित्यर्थः आह च - " पामिचं जं साहूणट्ठा ओछिंदिउं दियावेति "त्ति [अपमित्यं यत् साधूनामर्थाय उद्यतकं गृहीत्वा ददाति] एषां च समाहारद्वन्द्व', 'मीसक'त्ति मिश्रजातं साध्वर्थ गृहस्थार्थ चादित उपस्कृतं, आह च- 'पढमं चिय गिहिसंजयमीसोवक्खडाइ मीसं तु" [ प्रथममेव गृहिसंयतयोर्मिश्रं उपस्करणादि मिश्रं तु ] 'कीयगड'त्ति क्रीतेन क्रमेण कृतं साधुदानाय कृतं क्रीतकृतं, आह च - 'दव्वाइएहिं किणणं साहूणट्ठाए कीयं तु” [ द्रव्यादिभिः साधूनामर्थाय क्रयणं क्रीतं तु] 'पाहुडं व'त्ति Jain Education International For Personal & Private Use Only wwww.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy