________________
म्पुटं शङ्खः कम्बुः दन्तमणिः - प्रधानदन्तो हस्तिप्रभृतीनां दन्तजो वा मणिः शृङ्ग-विषाणं शैलः- पाषाणः पाठान्तरेण 'लेस'त्ति तत्र श्लेषः-श्लेषद्रव्यं काचवरः - प्रधानकाचः चेलं वस्त्रं चर्म-अजिनमेतेषां द्वन्द्रः तत एषां सत्कानि यानि पात्राणि भाजनानि तानि तथा महार्हाणि - महार्घानि बहुमूल्यानीत्यर्थः परस्य - अन्यस्य अध्युपपातं च-ग्रहणैकाग्रचित्ततां लोभं च मूर्च्छा जनयन्ति यानि तानि अध्युपपातलोभजननानि 'परियहिउँति परिकर्षयितुं परिवर्द्धयितुं वा परिपालयितुमित्यर्थः, न कल्पन्त इति योग:, 'गुणवओ'न्ति गुणवतो मूलगुणादिसम्पन्नस्येत्यर्थः न चापि पुष्पफलकन्दमूलादिकानि सनः सप्तदशो येषां व्रीह्मादीनां तानि सनसप्तदशकानि सर्वधान्यानि त्रिभिरपि योगे :- मनःप्रभृतिभिः परिग्रहीतुं कल्पन्त इति प्रकृतमेव, किमित्याह - औषध भैषज्य भोजनार्थाय तत्रौषधं - एकाङ्गं भैषज्यं द्रव्यसंयोगरूपं भोजनं प्रतीतमेव 'संजएणं'ति विभक्ति परिणामात् संयतस्य - साधोः, किं कारणं ? - को हेतुरकल्पने, उच्यते, अपरिमितज्ञानदर्शनधरैः - सर्वविद्भिः शीलं - समाधानं गुणाः- मूलगुणादयः विनयः - अभ्युत्थानादिकः तपःसंयमौ प्रतीतौ तान्नयन्तिवृद्धिं प्रापयन्ति ये ते तथा तैः, तीर्थकरैः- शासनप्रवर्त्तकैः सर्वजगज्जीववत्सलैः सर्वैः त्रैलोक्यमहितैः जिना:छद्मस्थवीतरागा तेषां वराः केवलिनः तेषां इन्द्रास्तीर्थकर नामकर्मोदय वर्त्तित्वाद् ये ते तथा तैः, एषा पुष्प| फलधान्यरूपा योनिः - उत्पत्तिस्थानं जगतां - जङ्गमानां त्रसानामित्यर्थो दृष्टा- उपलब्धा केवलज्ञानेन, ततश्च न कल्पते-न सङ्गच्छते योनिसमुच्छेदः - योनिध्वंसः कर्त्तुमिति गम्यते, परिग्रहे औषधाद्युपयोगे च तेषां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org