________________
म्भताः?-ऋतुसुखानि ऋतुशुभानि वा कालोचितानीत्यर्थः यानि वरकुसुमानि च सुरभिचन्दनं च सुगन्धयो -वरचूर्णरूपा वासश्च धूपश्च शुभस्पर्शानि सुखस्पर्शानि वा वस्त्राणि च भूषणानि चेति द्वन्द्वस्तेषां यो गुणस्तैरुपपता-युक्तास्ते तथा, तथा रमणीयातोद्यगेयप्रचुरनटादिप्रकरणानि च न लभ्यानि द्रष्टुमिति योगः, तत्र नटा:-नाटकानां नाटयितार: नर्तका-ये नृत्यन्ति जल्ला-वरनाखेलकाः मल्ला:-प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति 'वेलम्बग'त्ति विडम्बकाः-विदूषकाः प्रतीताः प्लवका-ये उत्प्लवन्ते नद्यादिकं वा तरन्ति लासका-ये रासकान् गायन्ति जयशब्दप्रयोक्तारो भाण्डा वा इत्यर्थः आख्यायका-ये शुभाशुभमाख्यान्ति लंखा-महावंशानखेलकाः मंखाश्च-चित्रफलकहस्ता भिक्षाकाः 'तूणइल्ला' तूणाभिधानवाद्यविशेषवन्तः 'तुंबवीणिका' वीणावादकाः तालाचरा:-प्रेक्षाकारिविशेषाः एतेषां द्वन्द्वः तत एतेषां यानि प्रकरणानि-प्रक्रियास्तानि च तथा, बहूनि-अनेकविधानि 'महुरस्सरगीयसुस्सराई ति मधुरवराणां-कलध्वनीनां गाथकानां यानि गीतानि-गेयानि सुखराणि-शोभनषड्जादिखरविशेषाणि तानि तथा, किंबहुना?-अन्यानि च-उक्तव्यतिरिक्तानि एवमादिकानि-एवंप्रकाराणि तपासंयमब्रह्मचर्यघातोपघातिकानि अनुचरता ब्रह्मचर्य ननैव तानि यानि कामोत्कोचकारीणि श्रमणेन-संयतेन ब्रह्मचारिणेति भावः 'लभ'त्ति लभ्यानि उचितानि द्रष्टुं-प्रेक्षितुं न कथयितुं नापि च स्मर्तु जे इति निपातः, निगमयन्नाह-एवं पूर्वरतपूर्वक्रीडितविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविरतग्रामधर्मा जितेन्द्रियो ब्रह्मचर्यगुप्त इति ४। 'पंचमगंति प-1
Jalt Education International
For Personal & Private Use Only
www.jainelibrary.org