SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ T. २४ स्वभावो यस्य स तथा ततः पदद्वयस्य कर्मधारयः, अत एवाह जितेन्द्रियः ब्रह्मचर्यगुप्त इति १ ॥ ' बीइयं 'ति द्वितीयं भावनावस्तु, किं तदित्याह - नारीजनस्य मध्ये - स्त्रीपर्षदोऽन्तः 'न' नैव कथयितव्या, केत्याह-कथावचनप्रबन्धरूपा विचित्रा - विविधा विविक्ता वा ज्ञानोपष्टम्भादिकारणवर्जा कीदृशीत्याह - 'विब्बोकविलाससम्प्रयुक्ता' तत्र विब्बोकलक्षणं इदं - " इष्टानामर्थानां प्राप्तावभिमानगर्व सम्भूतः । स्त्रीणामनादरकृतो विब्बोको नाम विज्ञेयः ॥ १ ॥” विलासलक्षणं पुनरिदं - " स्थानासनगमनानां हस्तभ्रूनेत्रकर्म्मणां चैव । उत्पद्यते विशेषो यः ष्टिः स तु विलासः स्यात् ॥ १ ॥" अन्ये त्वाहुः - “विलासो नेत्रजो ज्ञेयः" इति, तथा | हासः - प्रहसनिकाभिधानो रसविशेषः शृङ्गारोऽपि रसविशेष एव तयोश्च स्वरूपमिदं - " हास्यो हासप्रकृतिर्हासो विकृताङ्गवेषचेष्टाभ्यः । भवति परस्याभ्यः स च भूम्ना स्त्रीनीचबालगतः ॥ १ ॥" तथा " व्यवहारः पुंनार्योरन्योऽन्यं रक्तयो रतिप्रकृतिः । शृङ्गारः स द्वेधा सम्भोगो विप्रलम्भश्च ॥ १ ॥” एतत्प्रधाना या लौकिकीअसंविग्न लोकसम्बन्धिनी कथा - वचनरचना सा तथा सा वा मोहजननी मोहोदीरिका वाशब्दो विकल्पार्थः, तथा न-नैव आवाह: - अभिनवपरिणीतस्य वधूवरस्यानयनं विवाहश्च पाणिग्रहणं तत्प्रधाना या वरकथा| परणेतृकथा आवाहविवाहवरा वा या कथा सा तथा, साऽपि न कथयितव्येति प्रक्रमः, स्त्रीणां वा सुभगदुर्भगकथा सा, सा च सुभगा दुर्भगा वा ईदृशी वा सुभगा दुर्भगा वा भवतीत्येवंरूपा न कथयितव्येति प्रक्रमः, चतुःषष्टिश्च महिलागुणाः आलिङ्गनादीनामष्टानां कामकर्म्मणां प्रत्येकमष्टभेदत्वेन चतुःषष्टिर्महिलागुणा वा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy