________________
SMSROSSROSCORAL
मध्ये यथा जम्बूः सुदर्शनेति-सुदर्शनाभिधाना विश्रुतयशाः-विख्याता एवमिदमिति, किम्भूता जम्बः?यस्था नाम्नाऽयं द्वीपः जम्बूद्वीप इत्यर्थः, तथा तुरगपतिर्गजपती रथपतिर्नरपतिः यथा विश्रुतश्चैव राजा तथेदमपि विश्रुतमिति भावः, रथिकश्चैव यथा महारथगतः पराभिभावी भवतीत्येवमिहस्थः कर्मरिपुसैन्याभिभावी भवतीति, निगमयन्नाह-एवं-उक्तक्रमेणानेके गुणाः प्रवरत्वविश्रुतत्वादयोऽनेकनिदर्शनाभिधेयाः अ-18 हीना:-प्रकृष्टा अधीना वा-खायत्ता भवन्ति, केत्याह-एकस्मिन् ब्रह्मचर्य-चतुर्थे व्रते, तथा यस्मिंश्च ब्रह्मचर्ये आराधिते-पालिते आराधितं-पालितं व्रतमिदं-निर्ग्रन्थप्रव्रज्यालक्षणं सर्व-अखण्डं, तथा शील-समाधानं तपश्च विनयश्च संयमश्च क्षान्तिगुप्तिमुक्तिः-निर्लोभता सिद्धिर्वा तथैवेति समुच्चये तथा ऐहिकलौकिकयशांसि
च कीर्तयश्च प्रत्ययश्च आराधिता भवन्तीति प्रक्रमा, तत्र यश:-पराक्रमकृतं कीर्तिः-दानपुण्यफलभूता अहथवा सर्वदिग्गामिनी प्रसिद्धिर्यशः एकदिग्गामिनी कीर्तिः प्रत्ययः-साधुरयं इत्यादिरूपा जनप्रतीतिरिति, टू यत एवंभूतं तस्मान्निभृतेन-स्तिमितेन ब्रह्मचर्य चरितव्यं-आसेवनीयं, किंभूतं?-सर्वतो-मनःप्रभृतिकरणत्र
ययोगत्रयेण विशुद्धं-निरवयं यावज्जीवया प्रतिज्ञया यावज्जीवतया वा आजन्मेत्यर्थः, एतदेवाह-यावत् श्वेतास्थिसंयत इति, श्वेतास्थिता च साधोम॑तस्य क्षीणमांसादिभावे सतीति, इतिशब्दो विवक्षितवाक्यार्थसमाप्तौ, भङ्गयन्तरेण ब्रह्मचर्य व्रतं स्तोतुं प्रस्तावयति-एवं वक्ष्यमाणेन वचनेन भणितं व्रतं-ब्रह्मलक्षणं भगवता श्रीमहावीरेण 'तं च इमति तच्चेदं वचनं पद्यत्रयप्रभृतिक-'पञ्चमहब्वयसुव्वयमूलं' पञ्चमहाव्रतनामकानि
dan Education International
For Personal & Private Use Only
www.jainelibrary.org