SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकर०श्रीअभयदेव. वृत्तिः धर्मद्वारे सभावनाकं ब्रह्मर्चयम् सू०२७ ॥१३५॥ ब्दार्थः ततो यथा प्रवरा-प्रधाना तथेदं व्रतानामिति, तत्रैकोनपश्चाशत उच्छासानां लवो भवति, व्रीह्यादि- स्तम्बलवनं वा लवस्तत्प्रमाणः कालोऽपि लवः, ततो लवैः सप्तमैः-सप्तप्रमाणैः सप्तसङ्ख्यैर्विवक्षिताध्यवसायविशेषस्य मुक्तिसम्पादकस्यापूर्यमाणैर्या स्थितिबध्यते सा लवसप्तमेत्यभिधीयते, तथा 'दाणाणं चेव अभयदाणं ति दानानां मध्येऽभयदानमिव प्रवरमिदं, तत्र दानानि ज्ञानधर्मोपग्रहाभयदानभेदात्रीणि, 'किमिरागोव्व कंबलाणं ति कम्बलानां-वासोविशेषाणां मध्ये कृमिराग इव-कृमिरागरक्तकम्बल इव प्रवरमिदं व्रतानां, तथा 'संहणणे चेव वजारसह'त्ति संहननानां षण्णां मध्ये वज्रर्षभनाराचसंहननमिव प्रवरमिदं व्रतानामिति 'संठाणे चेव चउरंसे'त्ति शेषसंस्थानानां चतुरस्रसंस्थानमिवेदं प्रवरं व्रतानां, तथा ध्यानेषु च परमशक्लध्यान-शुक्लध्यानचतुर्थभेदरूपं यथा प्रवरमेवमिदं व्रतेष्विति गम्यं 'नाणेसु य परमकेवलं तु सिद्धंति ज्ञानेषु-आभिनियोधिकादिषु परमं च तत्केवलं च-परिपूर्ण विशुद्धं वा मतिश्रुतावधिमनःपर्यायापेक्षया परमकेवलं क्षायिकज्ञानमित्यर्थः तुरेवकारार्थः सिद्धं-प्रवरतया प्रसिद्ध यथा तथेदमपि व्रतेष्विति गमनीयं, लेश्यासु च-कृष्णाद्यासुपरमशुक्ललेश्या-शुक्लध्यानतृतीयभेदवर्तिनी यथा प्रवरा तथेदं व्रतेष्विति गम्यं, तीर्थकरश्चैव यथा मुनीनां प्रवरस्तथैवेदं व्रतानां, वर्षेषु-क्षेत्रेषु यथा महाविदेहस्तथेदं व्रतेषु, 'गिरिराया चेव मंदरवरेति चेवशब्दस्य यथार्थत्वात् यथा मन्दरवरो-जम्बूद्वीपमेरुगिरिराजस्तथेदं व्रतराजा, वनेषुभद्रशालनन्दनसौमनसपण्डकाभिधानेषु मेरुसम्बन्धिषु यथा नन्दनवनं प्रवरमेवमिदमिति, द्रुमेषु-तरुषु ॥१३५॥ For Personal & Private Use Only anelibrary.org JainEduced
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy