SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ रागद्वेषौ ॥१॥] ततः पदद्वयस्य कर्मधारये निवृत्तिगृहनियमनिष्प्रकम्पमिति भवति, तपःसंयमयोर्मूलदलिक-मूलदलं आदिभूतद्रव्यं तस्य 'नेमति निभं-सदृशं यत्तत्तथा, पश्चानां महाव्रतानां मध्ये सुष्टु-अत्यन्तं रक्षणं-पालनं यस्य तत्तथा, समितिभिः-ईयासमित्यादिभिर्गुप्तिभिः-मनोगुप्त्यादिभिर्वसत्यादिभिर्वा नवभिब्रह्मचर्यगुप्तिभिर्युक्तं गुप्तं वा यत्तत्तथा, ध्यानवरमेव-प्रधानध्यानमेव कपाटं सुकृतं-सुविरचितं रक्षणार्थ यस्य अध्यात्मैव च-सद्भावनारूढं चित्तमेव 'दिण्णोत्ति दत्तो ध्यानकपाटदृढीकरणार्थ परिधः-अर्गला रक्षणार्थमेव यस्य तत्तथा, सन्नद्ध इव बद्ध इव ओच्छाइयत्ति-आच्छादित इव निरुद्ध इत्यर्थः दुर्गतिपथो दुर्गतिमार्गो येन तत्तथा सुगतिपथस्य देशक-दर्शकं यत्तत्तथा तच, लोकोत्तमं च व्रतमिदं दुष्करत्वात्, यदाह-'देवदाणवर्गधव्वा जक्खरक्खस्सकिंनरा । बंभचारिं नमसंति दुक्करं जं करिति ते॥१॥[देवदानवगान्धर्वा यक्षराक्षसकिन्नराः। ब्रह्मचारिणं नमस्यन्ति यद दुष्करं तत्ते कुर्वन्ति ॥१॥] 'पउमसरतलागपालिभूयं ति सरः-खत:सम्भवो जलाशयविशेषः तडागश्च स एव पुरुषादिकृत इति समाहारद्वन्द्वः पद्मप्रधानं सरस्तडागं पद्मसरस्तडागं पद्मसरस्तडागमिव मनोहरत्वेनोपादेयत्वात् पद्मसरस्तडागं-धर्मस्तस्य पालिभूतं-रक्षकत्वेन पालिकल्पं यत्तत्तथा, तथा महाशकटारका इव महाशकटारका:-क्षान्त्यादिगुणास्तेषां तुम्बभूतं-आधारसामानाभिकल्पं यत्तत्तथा, महाविटपवृक्ष इव-अतिविस्तारभूरुह इव महाविटपवृक्षः-आश्रितानां परमोपकारत्वसाधाद्धर्मः तस्य स्कन्धभूतं-तस्मिन् सति सर्वस्य धर्मशाखिन उपपद्यमानत्वेन नालकल्पं यत्तत्तथा 'ज For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy