________________
प्रश्नव्याक२०श्रीअभयदेव० वृत्तिः
॥१३४॥
हानगरपागारकवाडफलिहभूयं ति महानगरमिव महानगरं-विविधसुखहेतुत्वसाधाद्धर्मः तस्य प्राकार
४ धर्मद्वारे इव कपाटमिव परिघमिव यत्तत् महानगरकपाटपरिघभूतमिति, रज्जुपिनद्ध इव इन्द्र केतु:-रश्मिनियन्त्रिते- सभावनाक वेन्द्रयष्टि: विशुद्धानेकगुणसंपिनद्धं-निर्मलबहुगुणपरिवृतं, यस्मिंश्च-यत्र च ब्रह्मचर्य भग्ने विराधिते भवति
ब्रह्मचर्यम् सम्पद्यते सहसा-अकस्मात् सर्व-सर्वथा सम्भग्नं घट इव मथितं-दधीव विलोडितं चूर्णितं-चणक इव पिष्टं
सू०२७ कुशल्यितं-अन्तःप्रविष्टतोमरादिशल्यशरीरमिव सञ्जातदुष्टशल्यं 'पल्लत्ति पर्वतशिखरादू गण्डशैल इव खाश्रयाचलितं पतितं-प्रासादशिखरादेः कलशादिरिवाधो निपतितं खण्डितं-दण्ड इव विभागेन छिन्नं परिशटितं-कुष्ठाद्युपहताङ्गमिव विध्वस्तं विनाशितं च-भस्मीभूतपवनविकीर्णदार्विव निस्सत्ताकतां गतं एषां समाहारद्वन्द्वः कर्मधारयो वा, किमेवंविधं भवतीत्याह-विनयशीलतपोनियमगुणसमूह-विनयशीलतपोनियमलक्षणानां गुणानां वृन्दं, इह च समूहशब्दस्य छान्दसत्वान्नपुंसकनिर्देशः, 'त'मिति तदेवंभूतं ब्रह्म-15 चर्य भगवन्तं-भट्टारकं, तथा ग्रहगणनक्षत्रतारकाणां वा यथा उडुपतिः-चन्द्रः प्रवर इति योगस्तथेदं व्रतानामिति शेषः, वाशब्दः पूर्वविशेषणापेक्षया समुच्चये, तथा मणयः-चन्द्रकान्ताद्याः मुक्ता-मुक्ताफलानि |शिलाप्रवालानि-विद्माणि रक्तरत्नानि-पद्मरागादीनि तेषामाकरा-उत्पत्तिभूमयो ये ते तथा तेषां वा यथा समुद्रः प्रवरस्तथेदं व्रतानामिति शेषः सर्वत्र दृश्यः, वैड़यं चैव रत्नविशेषो यथा मणीनां यथा मुकुटं चैव |॥१३४॥ भूषणानां वस्त्राणामिव क्षौमयुगलं काप्पासिकवस्त्रस्य प्रधानत्वात्, इह चेवशब्दो यथार्थो द्रष्टव्यः, "अरविंदं
dain Education International
For Personal & Private Use Only
www.jainelibrary.org