________________
प्रश्नव्याकर० श्रीअभयदेव. वृत्तिः
३ धर्मद्वारे | सभावनाकमदत्तादानविर
मणं सू०२६
॥१२९॥
विनयः प्रयोक्तव्यः, तत्र दानग्रहणयोगुवनुज्ञालक्षणः प्रच्छनायां तु वन्दनादिविनयः, तथा निष्क्रमणप्रवेशनयोविनयस्तु आवश्यकीनषेधिक्यादिकरणमथवा हस्तप्रसारणपूर्वकं भूप्रमार्जनानन्तरपादनिक्षेपलक्षणः, किंबहुना? प्रत्येक विषयभणनेनेत्यत आह-अन्येषु चैवमादिकेषु बहुषु कारणशतेषु विनयः प्रयोक्तव्यः, कस्मादेवमित्याह-विनयोऽपि न केवलमनशनादि तपः अपि तु विनयोऽपि तपो वर्त्तते, अभ्यन्तरतपोभेदेषु पठितत्वात् तस्य, यद्येवं ततः किमत आह-तपोऽपि धर्मः, न केवलं संयमो धर्मस्तपोऽपि धर्मों वर्तते चारित्रांशत्वात् तस्य, यत एवं तस्माद्विनयः प्रयोक्तव्यः, केष्वित्याह-गुरुषु साधुषु तपखिषु च-अष्टमादिकारिषु, विनयप्रयोगे हि तीर्थकराद्यनुज्ञाखरूपादत्तादानविरमणं परिपालितं भवतीति, पश्चमभावनानिगमनार्थमाह-एवमुक्तन्यायेन भावितो भवत्यन्तरात्मा, किंभूतंः?-नित्यमित्यादि पूर्ववत् ५ । अध्ययनार्थोपसंहारार्थमाह-'एवमिणं संवरस्स दारं सम्म संवरियं होइ सुप्पणिहियं इमेहिं पंचहिं कारणेहिं मणवयणकायपरिरक्खिएहिं निच्चं आमरणंतं च एस जोगो नेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्साई असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नाओ, एवं तइयं संवरदारं फासियं पालियं सोहियं तीरिअं किहि सम्म आराहियं आणाए अणुपालियं भवइ, एवं नायमुणिणा भगवया पण्णवियं परूवियं पसिद्धं सिद्धवरसासणमिणं आघवियं सुदेसियं पसत्थं ॥ तइयं संवरदारं समत्तं तिबेमि इदं च निगमनसूत्रं पुस्तकेषु किञ्चित्सा
॥१२९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org