SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ रेव, प्रचुरभोजनता च साधारणेऽपि पिण्डे भोजकान्तरापेक्षया वेगेन भुज्यमाने भवतीति तन्निषेधायाह-न वेगितं - ग्रासस्य गिलने वेगवत् न त्वरितं - मुखक्षेपे न चपलं- हस्तिग्रीवादिरूपकायचलनवत् न साहसं -अवितर्कितं अत एव न च परस्य पीडाकरं च तत्सावद्यं चेति परपीडाकरसावद्यं, किं बहुनोक्तेन ?, तथा भोक्तव्यं संयतेन नित्यं यथा 'से' तस्य संयतस्य तद्वा तृतीयत्रतं न सीदति न भ्रश्यति, दूरक्षं चेदं सूक्ष्मत्वादित्यत आह- साधारणपिण्डपात्रलाभे विषयभूते सूक्ष्मं सुनिपुणमतिरक्षणीयत्वादणु, किं तदित्याह| अदत्तादानविरमणलक्षणेन व्रतेन यन्नियमनं - आत्मनो नियन्त्रणं तत्तथा, पाठान्तरे अदत्तादानाद्वतमिति बुद्ध्या नियमेन अवश्यंतया यद्विरमणं - निवृत्तिस्तत्तथा, एतन्निगमनायाह - एवमुक्तन्यायेन साधारणपिण्डपात्रलाभे विषयभूते समितियोगेन - सम्यक्प्रवृत्ति सम्बन्धेन भावितो भवत्यन्तरात्मा, किंभूत इत्याह- 'निच' मित्यादि तथैव ४ | 'पंचमगंति पञ्चमं भावनावस्तु, किं तदित्याह - साधर्मिकेषु विनयः प्रयोक्तव्यः, एत|देव विषयभेदेनाह - 'उवकरणपारणासु'त्ति आत्मनोऽन्यस्य वा उपकरणं-ग्लानाद्यवस्थायामन्येनोपकारकरणं तच्च पारणा च तपसः श्रुतस्कन्धादिश्रुतस्य वा पारगमनं उपकारपारणे तयोर्विनयः प्रयोक्तव्यो, वि नयश्चेच्छाकारादिदानेन बलात्कार परिहारादिलक्षणः एकत्रान्यत्र च गुर्वनुज्ञया भोजनादिकृत्यकरणलक्षणः, तथा वाचना- सूत्रग्रहणं परिवर्तना-तस्यैव गुणनं तयोर्विनयः प्रयोक्तव्यो वन्दनादिदानलक्षणः, तथा दानंलब्धस्यान्नादेग्लनादिभ्यो वितरणं ग्रहणं - तस्यैव परेण दीयमानस्यादानं प्रच्छना - विस्मृत सूत्रार्थप्रश्नः एतासु Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy