SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ वनं-नगरविप्रकृष्टं एतेषां प्रदेशरूपो यो भागः स तथा तत्र यत्किञ्चिदिति-सामान्येनावग्रहणीयं वस्तु, तदेव विशेषेणाह-इक्कडं वा-ढंढणसदृशं तृणविशेष एवं कठिनकं जन्तुकं च-जलाशयजं तृणविशेषमेव पर्णमित्यर्थः तथा परा-तृणविशेषः मेरा तु-मुञ्जसरिका कूर्ची-येन तृणविशेषेण कुविन्दाः कूर्चान् कुर्वन्ति कुशदर्भयोराकारकृतो विशेषः पलालं-कङ्ग्वादीनां मूयको-मेदपाटप्रसिद्धस्तृणविशेषः वल्वजः-तृणविशेषः पुष्पफलवकप्रवालकन्दमूलतृणकाष्ठशर्कराः प्रतीतास्ततः परादीनां द्वन्द्वः पुनस्ता आदिर्यस्य तत्तथा तद गृह्णातिआदत्ते, किमर्थ?-शय्योपधेः-संस्तारकरूपस्योपधेरथवा संस्तारकस्योपाधेश्चार्थाय-हेतवे, इह तदिति शेषो दृश्यः, ततस्तन्न कल्पते-न युज्यते अवग्रहे-उपाश्रयान्तवर्तिनि अवग्राह्ये वस्तुनि अदत्ते-अननुज्ञाते शय्यादायिना 'गिहिजे'त्ति ग्रहीतुं-आदातुं जे इति निपातः, अयमभिप्रायः-उपाश्रयमनुज्ञाप्य तन्मध्यमतं तृणाद्यप्यनुज्ञापनीयं, अन्यथा तग्राह्यं स्यादिति, एतदेवाह-हणि हणि'त्ति अहनि २-प्रतिदिवसं, अयमभिप्राय:उपाश्रयानुज्ञापनादिने 'उग्गहंति अवग्राह्यमिक्कडादि अनुज्ञाप्य ग्रहीतव्यमिति, 'एव'मित्यादि निगमनं प्रथमभावनावद्वसेयं, नवरमवग्रहसमितियोगेन-अवग्रहणीयतृणादिविषयसम्यक्प्रवृत्तिसम्बन्धेनेत्यर्थः। तइयंति तृतीयं भावनावस्तु शय्यापरिकर्मवर्जनं नाम, तचैवं-पीठफलकशय्यासंस्तारकार्थतायै वृक्षा न छेत्तव्याः न च छेदनेन-तद्भूम्याश्रितवृक्षादीनां कर्त्तनेन भेदनेन च तेषां पाषाणादीनां वा शय्या-शयनीयं कारयितव्या, तथा यस्यैव गृहपतेरुपाश्रये-निलये वसेत्-निवासं करोति शय्यां शयनीयं तत्रैव गवेषयेत्-मृगयेत् न च विषमां 'उग्गहं तिअयोगेन-अवग्रहणामफलकश Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy