SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ अद्वितीयः-सहायो न भवतीत्यर्थः मनुष्यो-नरः, तथा भीतो भूत-प्रेतैर्गृह्यते-अधिष्ठीयते, तथा भीतोऽन्यमपि भेषयेत्, तथा भीतः तपःप्रधानः संयमः तपासंयमस्तमपि हुरलङ्कारे मुश्चेत्-त्यजेत् अलीकमपि ब्रूयादिति हृदयं, अहिंसादिरूपत्वात् संयमस्य, तथा भीतश्च भरं न निस्तरेत्, तथा सत्पुरुषनिषेवितं च मार्ग-धर्मादिपुरुषार्थोपायं भीतो न समर्थोऽनुचरितुं-आसेवितुं, यत एवं तस्मात् 'न भाइयव्वं ति न भेत्तव्यं जा'भयस्स वत्ति भयहेतोर्वाह्यात् दुष्टतिर्यङ्मनुष्यदेवादेः, तथा आत्मोद्भवादपि नेत्याह-वाहिस्स वत्तिर व्याधेः क्रमेण प्राणापहारिणः कुष्ठादेः रोगाद्वा-शीघ्रतरप्राणापहारकाच ज्वरादेः जराया वा मृत्योर्वा अन्य-13 स्माद्वा तादृशायोत्पादकत्वेन व्याध्यादिसदृशाद इष्टवियोगादेकस्मादिति, वाचनान्तरे इदमधीतं अन्यस्माद्वा एवमादीति, एतन्निगमयन्नाह-एवं धैर्येण-सत्त्वेन भावितो भवत्यन्तरात्मा-जीवः, किंविधः? इत्याहदा'संजए'त्यादि पूर्ववत् ४ । 'पंचमगंति पञ्चमकं भावनावस्त्विति गम्यते, यदुत हास्यं न सेवितव्यं-परिहासो न |विधेयः, यतः अलीकानि-सद्भुतार्थनिहवरूपाणि 'असंतगाई ति असन्ति असद्भतार्थानि वचनानीति गम्यते अशोभनानि वा अशान्तानि वा-अनुपशमप्रधानानि 'जल्पन्ति' ब्रुवते 'हासइत्तत्ति हासवन्तः परिहासकारिणः परिभवकारणं च हास्यं-अपमाननाहेतुरित्यर्थः, परपरिवादः-अन्यदूषणाभिधानं प्रिय-इष्टो यत्र तत्तथा तद्विधं च हास्यं, परपीडाकारकं च हास्यमिति व्यक्तं, 'भेयविमुत्तिकारकं च'त्ति भेदः-चारित्रभेदो विमूर्तिश्व-विकृतनयनवदनादित्वेन विकृतशरीराकृतिः तयोः कारकं यत्तत्तथा, तच्च हास्यं, अथवा .२१ lainelibrary.org Jain Education International For Personal & Private Use Only
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy