SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ क्षणलक्षणो योऽर्थस्तस्य भावस्तत्ता तस्यै च अलीकपिशुनपरुषकटुकचपलवचनपरिरक्षणार्थतायै प्रावचनंप्रवचनं शासनमित्यर्थः, भगवता श्रीमन्महावीरेण सुष्टु कथितं सुकथितमित्यादि 'पररक्खणट्टयाए'त्ति यावत पूर्ववत्, नवरं द्वितीयस्य व्रतस्य-अलीकवचनस्येति विशेषः, 'पढमति प्रथम भावनावस्तु अनुविचिन्त्यसमितियोगलक्षणं, तच्चैवं-श्रुत्वा-आकर्ण्य सद्गुरुसमीपे "संवरहति संवरस्य-प्रस्तावेन मृषावादविरतिलक्षणस्य अर्थः-प्रयोजनं मोक्षलक्षणं प्रस्तुतसंवराध्ययनस्य वाऽर्थ:-अभिधेयस्संवरार्थस्तं, श्रवणाच 'परमट्टे सुट्ट जाणिऊणंति परमार्थ-हेयोपादेयवचनैदम्पर्य सुष्टु-सम्यक् ज्ञात्वा न-नैव वेगितं-वेगवत् विकल्पव्याकुलतयेत्यर्थः वक्तव्यमिति योगः, न त्वरितं-वचनचापल्यतः न कटुकमर्थतः न परुषं वर्णतः न साहसं-साहसप्रधानमतर्कितं वा न च परस्य-जन्तोः पीडाकरं सावधं-सपापं यत्, वचनविधि निषेधतोऽभिधाय साम्प्रतं विधित आह-सत्यं च-सद्भतार्थ हितं च-पथ्यं मितं-परिमिताक्षरं ग्राहकं च-प्रतिपाद्यस्य विवक्षितार्थप्रती|तिजनकं शुद्धं-पूर्वोक्तवचनदोषरहितं सङ्गतं उपपत्तिभिरबाधितं अकाहलं च-अमन्मनाक्षरं समीक्षितं-पूर्व बुद्ध्या पर्यालोचितं संयतेन-संयमवता काले च-अवसरे वक्तव्यं नान्यथा, एवमुक्तेन भाषणप्रकारेण 'अणुवीइसमितिजोगेणं ति अनुविचिन्त्य-पर्यालोच्य भाषणरूपा या समितिः-सम्यक्प्रवृत्तिः साऽनुविचिन्त्यसमितिः तया योगः-सम्बन्धः तद्रूपो वा व्यापारोऽनुविचिन्त्यसमितियोगस्तेन भावितो भवन्त्यन्तरात्माजीवः, किंविध इत्याह-संयतकरचरणनयनवदनः सूरः सत्यार्जवसंपन्न इति प्रतीतमिति १ । 'विइयंति द्वि प्रधानमतव्यमिति योगः, न त्वरितदम्पर्य सुष्टु-सम्यक dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy