________________
१आश्रवे वधकवध्यप्रयोजनानि सू० ३
प्रश्नव्याक
यूकामत्कुणादीन् शरीरोपकरणार्थ-शरीरोपकाराय यूकादिकृतदुःखपरिहारार्थमथवा शरीराय उपकरणायर० श्रीअ- उपधये, अयमर्थ:-शरीरसंस्कारप्रवृत्ता उपकरणसाधनसंस्कारप्रवृत्ताश्च विविधचेष्टाभिस्तान् नन्तीति, किंभयदेव० भूतान्?-कृपणान्-कृपास्पदभूतानिति, तथा द्वीन्द्रियान् बहन् 'वत्थोहरपरिमंडणहत्ति वस्त्राणि-चीवराणि वृत्तिः ४|'उहर'त्ति उपगृहाणि आश्रयविशेषास्तेषां परिमण्डनार्थ-भूषार्थ, कृमिरागेण हि रज्यमानानि श्रूयन्ते व
स्त्राणि, आश्रयास्तु मण्ड्यन्ते एव शङ्खशुक्तिचूर्णेनेति, अथवा वस्त्रार्थ उपगृहाथै परिमण्डनार्थ चेति, तत्र वस्त्रार्थ पट्टसूत्रसम्पादने कृमिहिंसा सम्भवति, आश्रयार्थ मृत्तिकाजलादिद्रव्येषु पूतरकादिघातो भवति, परिमण्डनार्थ हारादिकरणे शुक्त्यादिद्वीन्द्रियाणामिति, अन्यैश्चैवमादिकैबहुभिः कारणशतैरवुधा-बालिशा 'इह हन्ति' इह-जीवलोके हिंसंति-नन्ति त्रसान् प्राणान् , तथा इमांश्च प्रत्यक्षान् एकेन्द्रियान्पृथिवीकायिकादीन् वराका:-तपखिनः समारम्भन्त इति योगः, न केवलमेकेन्द्रियानेव वसांश्चान्यांस्तदाश्रितांश्चैव, किंभूतान् ?-तनुशरीरान् अत्राणान् अनर्थप्रतिघातकाभावात् अशरणान् अर्थप्रापकाभावात् | अत एव अनाथान् योगक्षेमकारिनायकाभावात् अबान्धवान् खजनसम्पाद्यकार्याभावात् कर्मनिगडबद्धानिति व्यक्तं, तथा अकुशलपरिणामोदयावर्जितत्वेन मन्दबुद्धिश्च मिथ्यात्वोदयाद् यो जनो-लोकस्तेन दुर्विज्ञेया येते तथा तान्, पृथिव्या विकारा पृथ्वीमयास्तान् पृथ्वीमयान् पृथ्वीकायिकानित्यर्थः, तथा पृथिवीसंमृतान् अलसादित्रसान्, एवं जलमयान्-अप्कायिकान् जलगतान् पूतरकादित्रसान् सैवलादिवनस्पतिकायिकांश्च
॥११॥
Jain Educati
o nal
For Personal & Private Use Only
M
ainelibrary.org