________________
च पञ्च च इन्द्रियाणि येषां ते तथा द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेत्यर्थः ततस्तान्, विविधान् कुलभेदेन जीवान-जन्तून् प्रियजीवितान्-अभिमतप्राणधारणान् मरणलक्षणस्य दुःखस्य मरणदुःखयोर्वा प्रतिकूला:-प्रतिपन्थिनो ये ते तथा तान् वराकान्-तपखिनः, किमित्यत आह-नन्ति-विनाशयन्ति, बहुसक्लिष्टकम्र्माणः सत्त्वा इति गम्यते । एवं तावद्वध्यद्वारेण प्राणवधस्य प्रकार उक्तोऽथ प्रयोजनद्वारेण स उच्यते, एभिः-वक्ष्यमाणैः प्रत्यक्षैर्विविधैः कारणैः-प्रयोजनैः, 'किं ते'त्ति किं तत् प्रयोजनं?, तद्यथेति वा, चर्म-त्वक वसा-शारीरः स्नेहविशेषः मांसं-पलं मेदो-देहधातुविशेषः शोणितं-रक्तं यकृद-दक्षिणकुक्षौ मांसग्रन्थिः फिप्फिसं-उदरमध्यावयवविशेषः मस्तुलिङ्ग-कपालभेजकं हृदयं-हृदयमांसं अंत्रं-पुरीतत् पित्तं-दोषविशेषः फोफसं-शरीरावयवविशेषः दन्ता-दशनाः, एतेषां द्वन्द्वः, तत एतेभ्य इदमित्येवं विगृह्यार्थशब्दो योजनीयः, चर्मादिनिमित्तमित्यर्थः, तथाऽस्थीनि-कीकशानि मजा-तन्मध्यावयवविशेषः नखा:-करजाः नयनानि-लोचनानि कर्णा:-श्रवणाः 'हारुणि'त्ति स्नायुः नक्कत्ति-नासिका धमन्यो-नाड्यः शृङ्ख-विषाणं दंष्ट्रा-इशनविशेषः पिच्छं-पत्रं विषं-कालकूट विषाणं-हस्तिदन्तः वाला:-केशाः एतेषां द्वन्द्वः ततस्त एव हेतुरित्येवं हेतुशब्दो योज्यः, ततः षष्ठ्यर्थे द्वितीया, ततोऽयमर्थ:-अस्थिमज्जादिहेतोन्तीति प्रक्रमः, तथा हिंसन्ति च बहुसक्लिष्टकर्माण इति प्रक्रमः, भ्रमराः पुरुषतया लोकव्यवहृता मधुकर्यस्तु स्त्रीत्वव्यवहृतास्तदुगणान्-तत्समूहान् रसेषु गृद्धा मधुग्रहणार्थमिति भावः, तथैव हिंसन्त्येवेत्यर्थः, त्रीन्द्रियान्
योजनीयः, चमाणा:-श्रवणाः 'राहारुणिला हस्तिदृन्तः वाल
तथाऽस्थीनि-कीकशानि
गणं दंष्ट्रा-दशनविशनानि कर्णाः-श्रवणा
Jain Educat
onal
For Personal & Private Use Only
Mainelibrary.org