SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ स्थापनासत्यं जिनप्रतिमादिषु जिनादिव्यपदेशः, नामसत्यं यथा कुलमवर्द्धयन्नपि कुलवर्द्धन इत्युच्यते, रूपसत्यं यथा भावतोऽश्रमणोऽपि तद्रूपधारी श्रमण इत्युच्यते, प्रतीतसत्यं यथा अनामिका कनिष्ठिकां प्र तीत्य दीर्घेत्युच्यते, सैव मध्यमां प्रतीत्य हखेति, व्यवहारसत्यं यथा गिरिगततृणादिषु दह्यमानेषु व्यवहा राद् गिरिर्दह्यत इति, भावसत्यं यथा सत्यपि पञ्चवर्णत्वे शुक्लत्वलक्षणभावोत्कटत्वात् शुक्ला बलाकेति, योगसत्यं यथा दण्डयोगाद्दण्ड इत्यादि, औपम्यसत्यं यथा समुद्रवत्तडाग इत्यादि, तथा 'जह भणिअं तह य कम्मुणा होइ'त्ति यथा-येन प्रकारेण भणितं भणनक्रिया दशविधसत्यं सद्भूतार्थतया भवति तथा तेनैव प्रकारेण कर्मणा वा - अक्षरलेखनादिक्रियया सद्भूतार्थज्ञापनेन सत्यं दशविधमेव भवतीति, अनेन चेदमुक्त भवति न केवलं सत्यार्थं वचनं वाच्यं हस्तादिकम्र्म्माप्यव्यभिचार्यर्थ सूचकमेव कर्त्तव्यं, उभयत्राप्यव्यभिचा रितया परात्र्यसनस्याकुटिलाध्यवसायस्य च तुल्यत्वादिति, तथा 'दुवालसविहा य होइ भासत्ति द्वादशविधा च भवति भाषा, तथा च - " प्राकृतसंस्कृत भाषा मागधपैशाच सौरसेनी च । षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः ||१||" इयमेव षड्विधा भाषा गद्यपद्यभेदेन भिद्यमाना द्वादशधा भवतीति, तथा वचनमपि षोडशविधं भवति, तथाहि - " वयणतियं ३ लिंगतियं ६ कालतियं ९ तह परोक्खपचक्खं ११ । उवणीयाइचक्कं १५ अज्झत्थं” १६ चैव सोलसमं ॥ १ ॥ तत्र वचनत्रयं एकवचनद्विवचनबहुवचनरूपं यथा वृक्षः वृक्षौ वृक्षाः, लिङ्गत्रिकं स्त्रीपुंनपुंसकरूपं यथा कुमारी वृक्षः कुण्डं, कालत्रिकं अतीतानागतवर्त्तमानकालरूपं, यथाऽकरोत् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy