________________
प्रश्नव्याकर० श्रीअभयदेव० वृत्तिः
२ संवर
द्वारे सत्यस्य महिमा स्वरूपं च सू०२४
॥११७॥
उपसृज्यन्ते-धातुसमीपे नियुज्यन्त इत्युपसर्गास्तद्रूपं पदमुपसर्गपदं प्र परा अपेत्यादिवत्, तस्मै हितं तद्धितमित्याद्यर्थाभिधायका ये प्रत्ययास्ते तद्धिताः तदन्तं पदं तद्धितपदं यथा गोभ्यो हितो गव्यो देशः नाभेरपत्यं नाभेय इत्यादि, समसनं समासः-पदानामेकीकरणरूपः तत्पुरुषादिस्तत्पदं समासपदं यथा राजपुरुष इत्यादि, सन्धिः-सन्निकर्षस्तेन पदं यथा दधीदं तद्यथेत्यादि, तथा हेतुः-साध्याविनाभूतत्वलक्षणो यथाऽनित्यः शब्दः कृतकत्वादिति, यौगिक-यदेतेषामेव यादिसंयोगवत्, यथा उपकरोति सेनयाऽभियाति अभिषेणयतीत्यादि, तथा उणादि-उप्रभृतिप्रत्ययान्तं पदं यथा आशु स्वादु, तथा क्रियाविधानं-सिद्धक्रियाविधिः कान्तप्रत्ययान्त [कृत्प्रत्ययान्त ] पदविधिरित्यर्थः, यथा पाचकः पाक इत्यादि, तथा धातबो-भ्वादयः क्रियाप्रतिपादकाः खरा-अकारादयः षड्जादयो वा सप्त, कचिद्रसा इति पाठः तत्र रसाः-शृङ्गारादयो नव, यथा-"शृङ्गारहास्यकरुणा, रौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश्च, नव नाट्ये रसाः स्मृताः॥१॥" विभक्तयः-प्रथमाद्याः सप्त वर्णा:-ककारादिव्यञ्जनानि एभिर्युक्तं यत्तत्तथा, अथ सत्यं भेदत आह-त्रैकाल्यं -त्रिकालविषयं दशविधमपि सत्यं भवतीति योगः, दशविधत्वं च सत्यस्य जनपदसम्मतसत्यादिभेदात्, आह च-"जणवय १ संमय २ ठवणा ३ नामे ४ रुवे ५ पडुचसच्चे य ६। ववहार ७ भाव ८ जोगे ९ दसमे ओवम्मसचे य १०॥१॥"त्ति, तत्र जनपदसत्यं यथा उदकार्थे कोंकणादिदेशरूढ्या पय इति वचनं, संमतसत्यं यथा समानेऽपि पङ्कसम्भवे गोपालादीनामपि सम्मतत्वेनारविन्दमेव पङ्कजमुच्यते न कुवलयादीति,
॥११७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org