________________
देयतया जिनादिभिर्यत्तत्तथा, वैमानिकैर्वा साधित-कृतमासेवितं समर्थितं वा यत्तत्तथा, महार्थ-महाप्रयोजनं. एतदेवाह-मन्त्रौषधीविद्यानां साधनमर्थः-प्रयोजनं यस्य तद्विना तस्याभावात्तत्तथा, तथा चारणगणानां-विद्याचारणादिवृन्दानां श्रमणानां च सिद्धाः विद्या आकाशगमनवैक्रियकरणादिप्रयोजना यस्मात्तत्तथा, मनजगणानां च वन्दनीयं-स्तुत्यं अमरगणानां चार्चनीयं-पूज्यं असुरगणानां च पूजनीयं अनेकपाखण्डिपरिगृहीतं-नानाविधव्रतिभिरङ्गीकृतं यत्तल्लोके सारभूतं गम्भीरतरं महासमुद्रादतिशयेनाक्षोभ्यत्वात् स्थिरतरकं मेरुपर्वतात् अचलितत्वेन सौम्यतरं चन्द्रमण्डलात् अतिशयेन सन्तापोपशमहेतुत्वात् दीप्ततरं सूरमण्डलात् यथावद्वस्तुप्रकाशनात् तेजखिनां चात्यन्तानभिभवनीयत्वात् विमलतरं शरन्नभस्तलादतिनिर्दोषत्वात् सुरभितरमिव सुरभितरं गन्धमादनाद्-गजदन्तकगिरिविशेषात् सहृदयानामतीव हृदयावर्जकत्वात् येऽपि च लोकेऽपरिशेषा-निःशेषा मन्त्रा:-हरिणेगमेषिमन्त्रादयः योगा:-वशीकरणादिप्रयोजनाः द्रव्यसंयोगाः जपाश्चमन्त्रविद्याजपनानि विद्याश्च-प्रज्ञप्त्यादिकाः जृम्भकाश्च-तिर्यग्लोकवासिनो देवविशेषाः अस्त्राणि च-नाराचादीनि क्षेप्यायुधानि सामान्यानि वा शास्त्राणि च-अर्थशास्त्रादीनि शस्त्राणि वा-खड्गादीन्यक्षेप्यायुधानि |शिक्षाश्च-कलाग्रहणानि आगमाश्च-सिद्धान्ताः सर्वाण्यपि तानि सत्ये प्रतिष्ठितानि, असत्यवादिनां न केऽपि मन्त्रादयोऽर्थाः खसाध्यसाधकाः प्रायो भवन्तीति भावः, तथा सत्यमपि सद्भूतार्थमात्रतया संयमस्योपरोधकारक-बाधक किञ्चिद्-अल्पमपि न वक्तव्यं, किंरूपं तदित्याह-हिंसया-जीववधेन सावद्येन च-पापेन आला-|
Jain Educati
o
nal
For Personal & Private Use Only
low.jainelibrary.org