SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक र० श्रीअ भयदेव० वृत्तिः ॥ ११५ ॥ १ यन्ति हस्ताञ्जलिभिरिति गम्यते न च दह्यन्ते मनुष्याः, पर्वतकटकात्-पर्वतैकदेशाद् विमुच्यन्ते न च त्रियन्ते, सत्येन च परिगृहीता युक्ता इत्यर्थः असिपञ्जरे - शक्तिपञ्जरे गताः खड्गशक्तिव्यग्र कररिपुपुरुषवेष्टिता इत्यर्थः समरादपि - रणादपि 'निंति'त्ति निर्यान्ति-निर्गच्छन्ति, अनघाच - अक्षतशरीरा इत्यर्थः, के इत्याहसत्यवादिनः- सत्यप्रतिज्ञाः वधबन्धाभियोगवैरघोरेभ्यः - ताडनसंयमनबलात्कार घोरशात्रवेभ्यः प्रमुच्यन्ते अ| मित्रमध्यात्-शत्रुमध्यान्निर्यान्ति अनघाश्च निर्दोषाः सत्यवादिनः, सादेव्यानि च - सान्निध्यानि च देवताः कुर्वन्ति सत्यवचनरतानां, आह च - "प्रियं सत्यं वाक्यं हरति हृदयं कस्य न जने ?, गिरं सत्यां लोकः प्रतिपदमिमामर्थयति च । सुराः सत्याद्वाक्याद्ददति मुदिताः कामिकफलमतः सत्याद्वाक्याद्वतमभिमतं नास्ति भुवने ॥ १ ॥ " 'त'मिति यस्मादेवं तस्मात्सत्यं द्वितीयं महाव्रतं भगवद्-भट्टारकं 'तीर्थकरसुभाषितं' जिनैः सुष्ठुक्तं दशविधं दशप्रकारं जनपदसम्मतसत्यादिभेदेन दशवैकालिकादिप्रसिद्धं चतुर्द्दशपूर्विभिः प्राभृतार्थवेदितं - पूर्वगतांशविशेषाभिधेयतया ज्ञातं महर्षीणां च समयेन-सिद्धान्तेन 'पइन्नति प्रदत्तं समयप्रतिज्ञा वा- समाचाराभ्युपगमः, पाठान्तरे 'महरिसिसमयपइन्नचिन्नति महर्षिभिः समयप्रतिज्ञा- सिद्धान्ताभ्युपगमः समाचाराभ्युपगमो वेति चरितं यत्तत्तथा, देवेन्द्रनरेन्द्रैर्भाषितः जनानामुक्तोऽर्थः - पुरुषार्थस्तत्साध्यो धर्मादिर्यस्य तत्तथा, अथवा देवेन्द्रनरेन्द्राणां भासितः - प्रतिभासितोऽर्थः - प्रयोजनं यस्य तत्तथा, अथवा देवेन्द्रादीनां भाषिताः अर्था-जीवादयो जिनवचनरूपेण येन तत्तथा, तथा वैमानिकानां साधितं प्रतिपादितमुपा Jain Education International For Personal & Private Use Only २ संवर द्वारे सत्यस्य महिमा स्व रूपं च सू० २४ ॥ ११५ ॥ www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy