________________
एव स्यातां नापरस्येति भावः, सुगतिपथदेशकं च लोकोत्तमं व्रतमिदमिति व्यक्तं, विद्याधरगगनगमनविद्यानां साधनं नासत्यवादिनस्ताः सिध्यन्तीति भावः खर्गमार्गस्य सिद्धिपथस्य च देशक-प्रवर्तकं यत्तत्तथा अवि-13 तथं-वितथरहितं 'तं सच्चं उजुगंति सत्याभिधानं यद द्वितीयं संवरद्वारमभिहितं तदृजुकं ऋजुभावप्रवर्तितत्वात् तथा अकुटिलं अकुटिलखरूपत्वात् भूतः-सद्भतोऽर्थ:-अभिधेयो यस्य तद्भूतार्थ अर्थत:-प्रयोजनतो |विशुद्धं-निर्दोष प्रयोजनापन्नमिति भावः, उद्योतकर-प्रकाशकारि, कथं?-यतः प्रभाषकं-प्रतिपादकं भवति केषां कस्मिन्नित्याह-सर्वभावानां जीवलोक-जीवाधारे क्षेत्रे, प्रभाषकमिति विशिनष्टि-अविसंवादि-अव्यभिचारि यथार्थमितिकृत्वा मधुरं-कोमलं यथार्थमधुरं प्रत्यक्षं दैवतमिव-देवतेव यत्तदाश्चर्यकारकं-चित्तविस्मयकरकार्यकारक, तदीदृशं केषु केषामित्याह-अवस्थान्तरेषु-अवस्थाविशेषेषु बहुषु मनुष्याणां, यदाह"सत्येनाग्निर्भवेच्छीतो, गाधं दत्तेऽम्बु सत्यतः। नासिश्छिनत्ति सत्येन, सत्याद्रजूयते फणी॥१॥" एतदेवाह -सत्येन हेतुना महासमुद्रमध्ये तिष्ठन्ति न निमन्जन्ति, 'मूढाणियावित्ति मूढं-नियतदिग्गमनाप्रत्ययं 'अणियंति अग्रं तुण्डं अनीकं वा-तत्प्रवर्तकं जनसैन्यं येषां ते तथा तेऽपि पोता-बोधिस्थाः, तथा सत्येन च उदकसम्भ्रमेऽपि-सम्भ्रमकारणत्वादुदकप्लवः उदकसम्भ्रमस्तत्रापि 'न वुज्झइत्ति वचनपरिणामान्नोह्यन्ते-न प्लाव्यन्ते न च म्रियन्ते स्ताचं च-गाधं च ते लभन्ते, सत्येन चाग्निसम्भ्रमेऽपि-प्रदीपनकेऽपि न दह्यन्ते, ऋजुका-आर्जवोपेताः मनुष्या-जराः सत्येन च तप्ततैलत्रपुलोहसीसकानि प्रतीतानि 'छिवंति'त्ति छुपंति धार
या.२०
Join Education International
For Personal & Private Use Only
www.jainelibrary.org